SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ सम्य० ॥१२९॥ एवानुपपन्नः, कुतः क्षणिकानित्यकारणेभ्य उत्पादः ? इति । अथ पूर्वक्षणो विनश्यन्नुत्तरक्षणमुत्पादयति, तुलान्त-18 स० टी० यो मोन्नामवत् , एवं तर्हि क्षणयोः स्पष्टैवैककालताऽऽश्रिता, तथाहि- याऽसौ विनश्यदवस्था साऽवस्थातुरभिन्ना, उत्पादावस्थाप्युत्पित्सोः, ततश्च विनाशोत्पादयोर्योगपद्याभ्युपगमे तद्धर्मिणोरपि पूर्वोत्तरक्षणयोरेककालावस्थायित्वमिति, तद्धर्मत्वानभ्युपगमे च विनाशोत्पादयोरवस्तुत्वापत्तिरिति प्रलीनः क्षणिकवादः । एवं सर्वथा निरुत्तरी-15 कृतो वृद्धकरो वृद्धकरवत् प्रकम्पमानः सन्नपमानमहोदधिनिमग्नश्चिन्तयामास-अहो कथममुना शिशुनाऽपि पञ्चाननेनेव विद्यामदोन्मत्तो मतङ्गज इव पराजिग्ये?, अतः कथं खवदनं जने दर्शयिता ?, तस्मान्मरणमेव शरणमिति-It जैनमुनिपु मन्युमादधानो गृहीतानशनो विपद्य गुडपुरे वृद्धकरामिख्यो यक्षो भूत्वाऽर्हच्छासननिबद्धवैरानुबन्धस्त-17 द्भक्तजनमुपदुद्राव, यतो न कदाचिदपि ऋणं वैरं च पुराणतामासादयति । सङ्घोऽपि तदुपद्रवोपद्रुतः श्रीआर्य-13 खपटाचार्यान् व्यजिज्ञपत्-भगवन् ! भवन्तः एवात्र सपने प्रत्यवस्थातुं प्रत्यलाः, यथा क्षुति नष्टायां सूर्यस्मरणं यथाऽहिदृष्टे गरुडानुध्यानं तथाऽत्र व्यतिकरे भवतामेव स्मरणमिति सङ्घवचो हृदि निधाय सारखल्पपरिच्छदोपेता गुह्यकगृहे एकाकिनः प्रविश्य दुष्टदमनाय पुरातनोपानही तत्कर्णकुण्डलीकृत्य तद्धृदये च चरणयुगं दत्त्वा समन्ताद्वस्त्रावृतशरीराः सूरयः सुखं शेरते स्म । तदा तस्य यक्षस्य पूजकास्तां तादृशीं खखामिनोऽनन्यसामान्यामवज्ञामा-४॥ लोक्य तद्भक्ताय भूपाय सरभसमभाषन्त । राजाऽपि भ्रकुटीभीषणललाटपट्टो दन्तपतिदष्टोष्टपुटः सहसोत्थाय , 16 ॥१२९॥ Jan Educati o nal For Private & Personal use only Joininelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy