________________
कक्षीचकार-'यत्सत्तत्क्षणिकं यथा जलधरः सन्तश्च भावा इम' इति सौगतमतमनुमानमवितथं मन्यानो ते स्मक्षणिकमेव वस्तु वस्तुत्वमावहति विचार्यमाणं, नित्यं हि वस्तु विचारचतुरैर्विचार्यमाणं प्रवलपवनप्रेढोलनातरलितजल दलीलामाकलयति, तथाहि-अप्रच्युतानुत्पन्नस्थिरैकखभावं नित्यं, तच्च क्रमेणार्थक्रियां कुर्याद्योगपद्येन वा ?, न तावत्क्रमेण, क्रमो हि पौर्वापर्यं, तच प्रमाणैर्विचार्यमाणं स्वभावभेदमापादयति, तथा च सति स्वभावभेदादेवानित्यत्वं, नापि योगपद्येन, योगपद्यं हि समकालमेव सर्वार्थक्रियाकरणेन भावखभावाजगच्छून्यत्वप्रसङ्गः, अतो बलादेवायातं क्षणिकत्वं । किञ्च-एकं वस्तु सदसद्रूपं नित्यानित्यं चेति पक्षोऽप्यसम्भवी, विरोधव्याघाघ्रातत्वाद्, अतो दूरापास्त एव । इत्युदित्वा विरते वृद्धकरबौधाचार्ये अनल्पकल्पान्तवातकल्पजल्पो भुवनर्पिस्तमाक्षिप्तवान्-अरे देवानांप्रिय ! यत् त्वया अक्षणिके वस्तुन्यर्थक्रियाकारित्वदूषणमुद्देष्टं तद्भवदभ्युपगते क्षणिकेऽपि सममेव, यतः
क्षणिकोऽप्यर्थोऽर्थक्रियायां प्रवर्त्तमानः क्रमेण योगपद्येन वाऽवश्यं सहकारिकारणसव्यपेक्ष एव प्रवर्त्तते, यतः सा|मग्री वैजनिका, न खेकमेकस्माजायत इति । न च सहकारिणा कश्चिदतिशयः कर्तुं पार्यते, क्षणस्याविवेकित्वे-16 नानाधेयातिशयत्वात् , क्षणानां च परस्परोपकारकोपकार्यत्वानुपपत्तेः सहकारित्वाभावः, सहकार्यनपेक्षायां च प्रतिविशिष्टकार्यानुपपत्तिरिति । तदेवम्-‘अनित्य एव कारणेभ्यः पदार्थः समुत्पद्यते' इति, तत्रापि चैतदालोचनीयंकिं क्षणक्षयित्वेनानित्यत्वमाहोखित्परिणामानित्यत्वेनेति, तत्र क्षणक्षयित्वे कारणकार्यत्वाभावात्कारकाणां व्यापार
Jan Education
N
onal
For Private & Personal Use Only
N
ainelibrary.org