SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ सम्य० ॥१२८॥ स्तोममपहरन्तो वसुन्धरायां विहरन्तो गात्रयष्टिशर्मदाननिदाननर्मदानदीजलप्लवोल्लासितलताकच्छे श्रीभरतच्छे स०टी० श्रीभृगुकच्छे खच्छपरिच्छदसितच्छदविराजमानाः समवासार्पः। तत्र सौगतमतवासितखान्तो महसाऽधरीकृतमित्रो बलमित्रो नाम राजा प्रजाः पालयति स्म । तत्र च भक्तिभरनिर्भरवसुन्धरेश्वरमान्यतया सोन्मादा वादविद्यावि-17 शारदाः सुगतशासनोद्भावनां विदधानाः श्रीमजिनशासननिन्दनमुखरमुखाः स्वाज्ञैश्चर्यमिव सर्वत्र प्रवर्तयन्तो वर्तन्ते स्म शौद्धोदनिविनेयाः । तदा विवेकच्छेकाः श्रमणोपासका गुणगुरून् गुरून् प्रणिपत्य विज्ञपयन्ति स्म-भगवन् ! वयमकुण्ठशाठ्योल्लण्ठश्रीमदर्हच्छासननिन्दावचनमार्गणगणबोधिसत्त्वैरुक्तियुक्तिसमुल्लासितखतत्त्वैर्विध्यमानाः सुतरां च पीड्यमानाः सकष्टं तिष्ठामः स्म । तस्मादमी भषणा इव भपन्तो वारणीयाः केनाप्युपायेन, यतः-खलानां कण्ट-1 कानां च, द्विविधैव प्रतिक्रिया । उपानन्मुखभङ्गो वा, दूरतो वाऽपसर्पणम् ॥१॥ ततः सूरयो दशनविशदच्छविविच्छुरितरदच्छदास्तानवदन्-भो भोः ! श्राद्धा न वयं क्षमाधना नरकपतननिवन्धनं परैः सह वादं कुर्म इत्युक्त्वा विरते गुरुभिस्तजामेयो भुवनाभिधानो मुनिर्यमवहुर्द्धर्षस्तथागतानां स्पर्धिष्णूनां गोमायूनामिव शार्दूलो निन्दामसहमानो वादमनिच्छ्रनामपि प्रभूणां वचनमुपादाय सम्राडिव वादरणाङ्गणे वचनरचनाखरतरशरप्रहारैर्जर्जरयन् सौगतप्रत्यर्थिनोऽजैषीत् । तमसमानमपमानमाकर्ण्य वृद्धकराभिधानो बौद्धाचार्यों जैनजयमृगतृष्णातरलितो गुडशस्त्र ॥१२८॥ पुरादेत्यानात्मज्ञः सर्वज्ञपुत्रकेण भुवनर्षिणा सह राजसंसदि राजसभावतो विवदिषुः खमताभिमतमेवं पूर्वपक्षं Jain Education D o nal For Private &Personal use Only dainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy