SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ Jain Education गच्छम्मिय, कुलगणसंघेय चेइयविणासे । आलोइयपडिक्कतो, सुद्धो जं निजरा बिउला ॥ ११२ ॥ आर्हतीं सुचिरं दीक्षामासेव्योत्पाट्य केवलम् । मुनिर्विष्णुकुमारो द्रागप्रीणान्निर्वृतिश्रियम् ॥ ११३ ॥ इत्यद्भुतं विष्णुकुमारसाधोर्निशम्य वृत्तं सततं सुवृत्ताः ! । सङ्घस्य कार्ये तपसां प्रयोज्या, शक्तिर्भवद्भिर्भवभीतिभित्त्यै ॥ ११४ ॥ तपः प्रमावविषये विष्णुकुमारकथा ॥ पञ्चमं तपखिप्रभावकस्वरूपमुक्त्वा पष्ठं विद्यावत्प्रभावकलक्षणं गाथोत्तरार्द्धेनाह fest बहुविजमंतो, विज्जावन्तो य उचियन्नू ॥ ३५ ॥ व्याख्या–सिद्धा–जापहोमादियथावत्पूर्व सेवोत्तरसेवाभ्यां सिद्धिं गता, वह्नयो - भूयस्यो रोहिण्यादिषोडशविद्या| देव्यधिष्ठिताऽष्टचत्वारिंशत्सहस्रप्रमिता विद्याः सिद्धशावरादिपुरुषदैवताधिष्ठिताश्च मत्रा यस्य स सिद्धवहुविद्यामन्त्रः, पुनः किंविशिष्टः १ - ' उचितज्ञः ' सङ्घादिप्रयोजनकुशलो विद्यावान् भवति, चः समुचये, इति गाथोत्तरार्द्धार्थः ॥ ३५ ॥ भावार्थस्त्वार्यखपटाचार्यदृष्टान्तेन विष्टयते, तथाहि परैरजेयशासने श्रीवर्द्धमानशासने खण्डितानार्याः श्रीमदाऽऽर्यखपटाचार्याः अभूवन् शेपाहिक्षीरपाथोधि - खःसरिद्रोधसां छलात् । येषां विद्योद्भवा कीर्त्तिर्जगत्रयममण्डयत् ॥ १ ॥ तेषाममेयभागधेयोऽन्यवादिभिरजेयो भा गिनेयो भुवननामधेयः परमविनेयः समजनि । निराबाधमवस्थानं, भवितेतीव योऽत्र नः । विद्याभिरनवद्याभिर्भुवनो भवनीकृतः ॥ १ ॥ एकदा कपटकरटिकरटतटपाटनपटुतरहरयः श्री आर्यखपटसूरयः सहस्रकरा इव भव्यमनस्तमः For Private & Personal Use Only onal jainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy