SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ सम्यक ज्ञात्वा, यतिं प्रकुपितं हरिः । गन्धर्वा गायनीः प्रेषीत् , तत्प्रबोधाय बुद्धिमान् ॥ ९७ ॥ तत्कर्णाभ्यर्णमेत्यैता, गी- स. टी. तिका जगुरुचकैः । रोपोरगगरावेग-भङ्गायामृतसारणीः ॥ ९८ ॥ क्रुधं मुञ्च क्षमाधार !, यदर्थमियमादृता । स ॥१२७|| पापी नमुचिनिन्ये, भवता श्वभ्रगह्वरम् ॥ ९९ ॥ कुरुष्वोपशमे बुद्धिं, कुरुवंशशिरोमणे! । नायं पन्था मुनीन्द्राणां, क्षमासारा हि साधवः ॥१०॥ कोपो मूलमनर्थद्रोर्विपल्लीघनागमः । भवपाथोधिशीतांशुः, शिवद्वारमहार्गला ॥१०१॥ एवं गन्धर्वनारीभिर्गीयमानं निशम्य सः। न प्राप कोपाटोपस्योपशमं श्रवणोऽपि हि ॥ १०२ ॥ ससङ्घाः सुव्रताचार्यास्ततोऽमृतकिरा गिरा । तं मुनि शमयामासुः, क्रोधाग्नेर्भारपूरवत् ॥ १०३॥ महापद्मोऽपि विज्ञातवृत्तान्तस्तस्य शान्तये । चरणाग्रे विलग्नोऽभात्कीटिकेव महीधरे ॥१०४॥ सोऽपि सम्प्राप्तचैतन्यो, रूपं मुक्त्वाऽथ वैक्रि-13 |यम् । सहजस्थं तनुं भेजे, सहजो दुस्त्यजो यतः॥ १०५ ॥ तमुपालब्धवान् विष्णु-साधुरेवं नराधिप ! । पद्मोत्तरभु-16 वस्त्वत्तो, युक्तमीदृग्विचेष्टितम् ? ॥१०६॥ जानीषे त्वं न किं भूप!, यदवज्ञा जिनेशितुः। पराभवश्च साधूनां, दुर्ग दुर्गतिहेतवे ॥ १०७ ॥ पतित्वा पदयोस्तस्य, खापराधं धराधिपः । क्षमयामास नैवाहं, वेन्येतत्तद्विजृम्भितम् 18॥१०८॥ पूर्वदत्तवरस्तेन, वञ्चितो हा दुरात्मना । खलानां भुजगानां च, कौटिल्यं केन लक्ष्यते ? ॥ १०९॥ एवं प्रसादयित्वा तं, प्रणय च विशां प्रभुः । ययौ ततो विष्णुराप, त्रिविक्रम इति प्रथाम् ॥ ११ ॥ गुरूणां सन्निधौ ॥१२७॥ विष्णु-कुमारोऽप्यथ पातकम् । समालोच्य प्रतिक्रम्य, शुद्धोऽभूत्स्फटिकाश्मवत् ॥ १११ ॥ यदागमः-आयरिए JanEducation International For Private & Pasonal use only www.jainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy