________________
सम्य०चिरकालं परिशीलितचारुचारित्राः कथं न साधयिष्यामः ? । अत्रान्तरे प्रत्यनीकैका देवता श्राविकारूपमास्थाय| स०टी०
पुरोभूत्वा भक्तेव साधूनामन्त्रयते स्म, प्रसद्याद्य मद्गृहे पारणकं कुरुत मामनुगृहीत, ततः स्वामी तं गिरिमयोग्या॥१२६॥
वस्थानमाकलय्य समीपतरं भूधरमनगारयुग् जगाम, तत्र सर्वैरपि क्षेत्रदेवताकायोत्सर्गों विदधे, साऽपि प्रत्यक्षीभूय प्रणत्य गुरूनवादीत्-शीघ्रमविघ्नं साधयध्वमुत्तमार्थ, मद्भाग्याकृष्टा इव यूयमत्रागताः, ततस्ते यथायोग्यं शि-IPI लातलमलञ्चक्रुः । तदेन्द्रेण रथारूढेन प्रदक्षिणीकृत्य ते नमस्कृताः, यानि तत्र रथेन तरुशिखराणि कुब्जीकृतानि तान्यद्य यावत्तथैव सन्ति, तस्य शैलस्य रथावर्त्त इति नाम प्रसिद्धिमगमत् । श्रीवज्रखामिपादाः स्थविराश्च सम्यगनशनं संसाध्य त्रिदिवाभरणीबभूवुः, तस्मिन्नस्तमिते दशपूर्व्यर्द्धनाराचसंहनने व्युच्छेदं जग्मतुः । अथ वज्रसेननामा मुनिः सोपारकपत्तने गणचतुष्टयस्थापनं कृत्वाऽर्हच्छासनप्रभावकः समजनि । श्रीवज्रसूरेरिति सच्चरित्रं, हृदम्बुजे भृङ्गपदत्वमाप्य । सिद्धान्तपाठे सुकृतैकसार-कथाप्रवन्धे च विधत्त यत्नम् ॥१॥ प्रावचनिकधर्मकथिकप्रभाषकद्वयविषये श्रीवज्रखामिकथा। प्रावचनिकधर्मकथिकप्रभावकद्वयलक्षणमुक्त्वा तृतीयवादिप्रभावकस्वरूपं गाथापूर्वार्द्धनाह
___ वाई पमाणकुसलो, रायदुवारेऽवि लद्धमाहप्पो। व्याख्या-'वाइत्ति' स वादी कथ्यत इति सम्बन्धः, यः 'प्रमाणकुशलः' प्रमाणानि सौगतादिमतप्रतीतानि
॥११६॥ प्रत्यक्षादीनि, यदुक्तं-चार्वाकोऽध्यक्षमेकं सुगतकणभुजौ सानुमानं सशाब्द, तद्वैतं पारमर्षः सहितमुपमया तत्रयं
RECRORECASE5%
25
Jamn Education
a
l
For Privale & Personal use only
RMjainelibrary.org