SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ सम्य० ॥११५॥ | नव्यन्तरमन्दिरपार्श्वस्थोद्यानेऽनुदिन मुत्पद्यमानपरिमलमिलद्भृङ्गाङ्गनाध्वनिमनोहरपुष्पकुञ्जे जग्मुः, तत्र पितृमित्रं तडि - नामकं मालाकारमाकारयामासुः, सोऽपि ससम्भ्रमस्तं नमस्कृत्याह स्म - केन वस्तुना कार्य ? तत्प्रसद्य सद्य आदिशत, सूरयोऽप्यृचुः - पुष्पैर्नः प्रयोजनम्, तानि च प्रगुणीकुरु, प्रत्यावृत्ता वयं ग्रहीष्याम इति प्रोच्य लघुहिमवत्पद्महदे श्रीदेवीपार्श्वे ययुः, तयापि देवार्चाकरणायोपात्तं सहस्रपत्र कमलमलिमालाझङ्कारसारं सूविरं नमस्कृत्योपदीकृतं, सूरयोऽपि तदाऽऽदाय ज्वलनगृहमागत्य पुष्पाण्यादाय अनणुमणिरणत्किङ्किणीकाणश्रुतिसुखकरं समुलसत्पटुध्वजापटवरिष्ठं विमानमारचय्योपविश्य च स्मृतिमात्रोपस्थिततिर्यगूजृम्भकामररचितगीतनृत्यवादित्ररवपूरितदिगन्तराः शिरउपरिधारितसहस्रपत्र सरसीरुहाः क्षणेन महापुर्या उपरि समैयरुः । तं विमानमालोक्य जातसम्भ्रमा भिक्षवस्तदुपासकाश्च हर्षादात्मदेव प्रभावोत्कर्षं भावयन्तो जयति जयति सुगतशासनमिति स्तुवन्तस्तूर्यरवपूर्वमर्घपात्रपाणयो यावत्पुरान्निरीयुः, तावत्तेषां विहारं मातङ्गागारमिव दूरं परिहृत्य विध्वस्तवैरिमानाः सविमानाः सूरिवराः श्रीमजिनमन्दिरमैयरुः । तत्र सुरैरतुच्छो महोत्सवो व्यरचि, तद्विलोक्य नृपो बहुपौरपरिवृतः परित्यक्तसौगताचारः श्रावकत्वमङ्गीकृत्य स्तुतिमेवमकरोत् — प्रवचनरहस्यविद्या - धर्मकथाप्रवरमन्त्रतत्राद्यैः । श्रीमद्वज्रादपरः, प्रभावयेच्छासनं कोsa ! ॥ १ ॥ अथ दक्षिणदेशे विहरतां गुरुणामेकदा शिरोऽत जातायां तन्नाशाय गीतार्थैः शुण्डी समर्पिता, तैरपि भुक्तोत्तरभक्षणाय कर्णेऽवस्थापिता, तथैव तेषां सा तत्र विस्मृता, ततः प्रादोषिकावश्यकमुखवस्त्रिका Jain Education International For Private & Personal Use Only स० टी० ॥११५॥ www.jainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy