________________
H
ARSHAH
शात्करालं दुष्कालमजनिष्ट, बहिर्निर्गन्तुमपि न पार्यते, सर्वेऽप्यवतस्थिरे मार्गाः, तदा सङ्घः क्षुत्कण्ठगतप्राणो भग-1 वन्तं व्यजिज्ञपत्-नाथ ! त्वयि तीर्थाधारे सति वेदनातः सङ्घो विपत्स्यते तदा भवतामेव लज्जा, यदुक्तम्-“रयणायरतीरपरिट्ठियाण पुरिसाण जं च दालिदं । सा रयणायरलज्जा, नहु लज्जा इयरपुरिसाणं" ॥१॥सूरयोऽप्येतद्वचोऽवधार्य सङ्घ पटेऽध्यारोप्य यावद्गनाङ्गणेऽचलन् तावद् द्विजन्मा शय्यातरस्तथा पश्यंस्तृणं दन्तैश्छिन्दान एवं जगादअहमपि युष्माकमधुना साधर्मिको जातोऽस्मि, ततो भगवता कारुण्यामृतसिन्धुना तत्रारोहणाय सोऽनुज्ञात इति श्रुतिवचः स्मरता "साहम्मियवच्छल्लम्मि उज्जुया उजुया य सज्झाए । चरणकरणेसु य रया, तित्थस्स पभावगा हुन्ति ॥ १॥” ततो गुरवो गगनवम॑ना महीमाक्रामन्तः सुभिक्षदेशे महापुरीपुरीमवतेरुः । तत्र सर्वोऽपि राजादिजनो बौद्धधर्मविजैन धर्म तृणायापि न मन्यते, क्रमेण श्रमणोपासकानां सौगतोपासकानां च स्पर्द्धया खखचैत्येषु पुष्पादिपूजाऽहंपूर्विकया क्रियमाणा सजज्ञे । तदनु मेदिनीपतिमान्यतया सौगताः श्रावकानभिभवन्ति, तेषां च पुष्पाण्यादातुं न ददते, अथ सांवत्सरिकपर्वण्यायाते तैर्नृपं विप्रतार्य राजाज्ञादानपूर्वकं सर्वथा श्रावकाणां पुष्पग्रहणं निवारितं, तत्परिभूताश्च ते श्रीवजं व्यजिज्ञपन् सूरयोऽपि सावद्यसेवनं संसृतिपातनिवन्धनं जानाना अपि सङ्घसमुन्नतिनिमित्तं तदपि सेवितं महते गुणायेति विमृश्योपासकान् सन्तोषयामासुः, मा यूयमत्रार्थे खेदमुबहत, वयं युष्मन्मनोरथं पूरयिष्यामः । ततः सुरयो नभोमार्गे उल्लत्य मालवकमण्डले रेवाकूलिनीकूले माहेश्वरीपुर्या हुताश
Jain Education
a
l
For Private &Personal use Only
Mainelibrary.org