SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ सम्यक स०टी० ॥११४॥ इति तद्वचःश्रवणाभरणीकृत्य सपरिजनो धनो धनकोटीः सहादाय दृक्कटाक्षच्छटाविघटितसुभगजनानन्दिनी नन्दिनी च श्रीवज्रसंसदमाससाद । तस्मिन् क्षणे भूरिशो जना धर्मदेशनया प्रतिबुद्धाः परस्परमित्यभाषन्त-यागु गुरूणां खरादिगुणः सरसस्तादृग् चेद्रूपसौभाग्यमभविष्यत्तदा सुवर्ण सुरभि(भ)मजनिष्यदिति सभ्यजनाभिप्रायं विज्ञाय भगवान सुवर्णसहस्रपत्रकमलस्थसिंहासनस्योपरि सूर्यवत्तेजःपुञ्जमयं रूपं निर्माय तस्थिवान् । ततो विस्मयविस्फारितविलोचनो लोकोऽहो अहो उभयथापि स्मरजयिनो भगवतः खाभाविकं रूपं, पश्यत, पश्यत पूर्व मा स्त्रीजनक्षोभाय भवेयमित्यात्मानं कुरूपं दर्शितवान् , अतः किमुच्यतेऽस्य महात्मनो माहात्म्यमिति वर्णनोन्मुखरमुखो बभूव, भगवानप्युवाच-भो भो मा विस्मयं कुरुत, ये महात्मानस्ते विविधै रूपैर्जम्बूद्वीपाद्यसङ्ख्यद्वीपानपि पूरयन्त्यतः किमत्र चित्रं ?, अत्रान्तरे धनश्रेष्ठी भूतलमिलनमौलिः कोमलवचनैर्धनकोटिभिः सह खसुताविवाहमहमयाचिष्ट, ततो निःस्पृहशिरोमणिः खामी विषयवैमुख्यमेवं ब्याचक्षौ किम्पाकफलसमानाः, कटुकविपाका इमे मुखे मधुराः । भोगाः श्मशानभूवत्समन्ततो भूरिभयजनकाः ॥ १॥ किं वचनैर्वहुरूपैर्विषयान् दुखौघकारणं मत्वा । कः श्रेयोनिःश्रेयस पदाभिलाषी निषेवेत ? ॥२॥ यद्येतस्या मय्येकान्ताभिलाषः तदेयं सर्वसङ्गविरतिमाचरतु, एवं श्रुत्वा रुक्मिण्यपि द प्रक्षीणविषया महोत्सवपूर्व प्रवत्राज । भगवानपि पदानुसारिलब्ध्या महापरिज्ञाध्ययनोद्धृतगगनगामिविद्यया ति यंग्जृम्भकदेवदत्तविद्याभिश्चेच्छासञ्चारपरः समवृतत । एकदा पूर्वदेशात् सूरय उत्तरां दिशं विजहुः, तत्र विधिव ॥११४॥ 25% Damn Educaton n al For Private & Personal Use Only N ainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy