________________
Jain Education In
यन्ता, तदा सुहुतहुताशन एव शरणम्, उत तचरणौ शरणीकृत्य प्रत्रजिष्यामि । अत्रान्तरे श्री स्वामी पाटलीपुत्रपत्तनपरिसरवसुन्धरां खचरणारविन्दैरमण्डयत्, राजाऽपि निजपरिजनयुतः सूरिभूरिगुणश्रवणसञ्जातोत्कण्ठः सम्मुखमेत्य फडकक्रमेण मुनीनागच्छतो विलोकयंस्तेषु यं यमुदाररूपं यतिं पश्यति तं तं श्रीवज्रस्वामिनं मन्वानः पृच्छति स्म - किममी गुणगुरवो गुरव उत न ?, ततस्तेऽपि ब्रुवते स्म न वयं सूरयः, किन्तु ते पश्चादागच्छन्तः सन्ति, एवमुत्कण्ठितस्य तस्य राज्ञो मुनिराजहंसशृङ्गारितसमीपाः सूरयो दृक्पथमैयरुः, तदोत्फुल्लनयनेन भूपेन प्रणताः स्तुताश्च ते पुरोद्यानमलंचक्रुः । तत्र संसारवैराग्यकारिणीं देशनां व्यधुः - "दुखं स्त्रीकुक्षिमध्ये प्रथम मिह भवे गर्भवासे नराणां, बालत्वे चापि दुःखं मललुलिततनुः स्त्रीपयःपानमिश्रम् । तारुण्ये चापि दुःखं विरहदहनजं वृद्धभावोऽप्यसारः, संसारे रे मनुष्या ! वदत यदि सुखं खल्पमप्यस्ति किञ्चित् ॥ १ ॥ अनया देशनया हृतहृदयः सहृदयो राजा पौरपरिवृतः खप्रासादमासाद्य श्रीवज्रस्वामिरूपादिस्वरूपमन्तःपुरीणां पुरः प्रकाशयामास, ता अपि विस्मयोत्तानमानसाः प्राणेशं विज्ञपयामासुः -स्वामिन् ! वयमपि तद्रूपं निरूपयितुं स्पृहयामो यामोऽभिवन्दितुं च, ता अपि नृपादिष्टा विस्मेरदृष्टयो लावण्यामृतसृष्टिं सूरिं दृष्ट्वा परमानन्दपुष्टा वन्दन्ते स्म । इतश्च धननन्दिनी तह|र्शनाभिनन्दिनी विज्ञातश्रीवज्रागमनखरूपा रणरणकसमाकुलितखान्ता पितृमातृभ्रातृप्रभृतिस्वर्ग दशनद्युता द्योतितर दच्छदा व्यजिज्ञपत्, - दत्त मां सुभगशिरोमणये श्रीवज्रखामिने नो चेन्मम प्राणानिंधनीकुरुत सुहुतहुतभुजि,
For Private & Personal Use Only
ainelibrary.org