________________
सम्य
स०टी०
॥११३॥
SAMACHAR
वर्तमानं दशपूर्वश्रुतं ग्रहीष्यतीति खप्नफलं, वोऽपि तस्यां निशि पुर्या बहिरुपित आसीत् , स तेषामकुण्ठोत्कण्ठा-16 वतां वसतिं ययौ, तैरप्यानन्दामृतश्राविण्या दृशा ददशे, श्रीवत्रोऽयमित्युपालक्ष्यत च, ततः सम्मुखमुत्थाय सूरिभिः स आलिलिङ्गे, मुनिभिरप्यातिथेयं विधिना प्रतिपदे, तेनापि विनयविनीतेन गुर्वन्तिकेऽधीतानि दशापि पूर्वाणि, तदध्ययने चैषा युक्तिः-पूर्वाणां यत्रोद्देशस्तत्रैवानुज्ञा विधीयते, यतः-जत्थुद्देसोऽणुनावि तत्थ कज्जइ कमो इमो अत्थि । दिट्ठीवायमहागम-सुत्तत्थाणं तओ पुच्छा ॥ १ ॥ तेन हेतुना श्रीसिंहगिरयो वज्रखामिने सर्वद्रव्यप-14 र्यायानुज्ञारूपामाचार्यपदवीं दित्सवो दशपुरमलंचक्रुः, तदा तत्सुहृदस्तियंगज़म्भकसुरा अवसरज्ञाः श्रीवज्रसूरिपदस्थापनायां महामहं पुष्पगन्धादिवृष्टयाऽकार्षः । ततः सिंहगिरिगुरवः श्रीवाखामिनि न्यस्तप्रशस्तगणभारा गृहीतानशना महर्द्धिकदेवपदवीमासेदुः । ततो भगवान् युगप्रधानः श्रीमुनिपञ्चशतीयुतो रूपादिगुणैर्जनतां रजयन् ग्रामपुरादिषु विहरति स्म । इतश्च कुसुमपुरे धनो नाम श्रेष्ठी वसति स्म, तस्य शीलादिगुणैर्मनोज्ञा मनोज्ञा नाम गृहिणी, तयोर्लावण्योपहसितरुक्मणी रुक्मणी नाम तनया, सा च क्रमेण पञ्चशरप्रसरलीलावनं यौवनं प्रपन्ना । कदाचित्सा स्वयानशालास्थितसाध्वीनां सविधमगमत् , ताभिरखिलकलाकुशलं वज्रवामिनमनुदिनं वर्ण्यमानमाकर्ण्य सा तद्गतचित्ता तमेव पतीयितुमिच्छन्ती न्यषेधि-वत्से ! मैवं कदाग्रहमकार्षीः, स महात्मा सर्वथा विजितविषयो रागमन्थरया दृशाऽपि त्वां नेक्षितुमर्हति, तन्निशम्य सा सहस्रगुणीकृतानुरागैवं प्रतिज्ञातवती-यदि स मां नोप
॥१
Jan Education Interational
For Privale & Personal use only
www.jainelibrary.org