SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ Jain Education चिन्तयामासुः - यदि तत्र गुरवो बहुकालं विलम्बन्ति तदास्माकमङ्गाध्ययनं रयात्पारमियर्त्ति, कियद्भिर्दिनैरतीगुरवः तत्र समेताः सुखवाचनां साधूनपृच्छन्, तेऽपि विकसितमुखपङ्कजा वाचनाचार्य वज्रमेवायाचन्त, गुरवोऽप्यूचुः - वत्सा ! अवश्यमसौ भवत्प्रार्थनापूरको भविष्यति, परं न सम्प्रति योग्यतामर्हत्यकृतोपधानत्वात्, किन्तु युष्मज्ज्ञापनार्थमेव ग्रामान्तरगमनं कृतं यतोऽमुं स्थविरा मा ! परिभवन्तु । यतः - अप्रकटीकृतशक्तिः, शक्तोऽपि न - रस्तिरस्कृतिं लभते । निवसन्नन्तर्दारुणि, लङ्घयो वह्निर्न तु ज्वलितः ॥ १ ॥ ततः कृतानुयोगं सूत्रार्थपौरुपीक्रमेण सूरयस्तमपाठयन् सोऽपि प्रज्ञोन्मेषात्पदानुसारिलब्धियोगाच्च गुरुणामप्यधिकतमः समवृतत, यदागमः - चत्तारि सीसा पन्नत्ता - अइजाए सुजाए अणुजाए कुलिंगाले, एवमेव कुटुंबीणं चत्तारि पुत्ता पन्नत्ता - चत्तारि हुति सीसा अइजायसुजायहीणजायत्ति । तिन्नि कमेणं हीणा, सङ्घविहीणो कुलिंगालो ॥ १ ॥ गुरुणो गुणेहिं अहिओ, पढमो बीओ समाणओ तेण । तइओ य किञ्चिदूणो, सङ्घविहीणो कुलिंगालो ॥ २ ॥ ततः सूरयो विहरन्तो दशपुरपुरमैयरुः । अत्रान्तरे श्रीमदुज्जयिन्यां श्रीभद्रगुप्तसूरयो दशपूर्विणो वृद्धवासं स्थिताः सन्ति स्म तेषामन्तिके सम्पूर्णदशपूर्वपठनाय श्रीवज्रः सङ्घाटकेन गुरुभिः प्रैषि, श्रीभद्रगुप्ताचार्या अपि पश्चिमरात्रौ खप्नमपश्यन् - यत्कोऽपि प्रातीच्छको मत्पतद्ब्रहादखिलमपि पयः पपौ, प्रातः स्वसाधुभ्यः स्वप्नं न्यवेदयन् तेऽप्यलब्धपरमार्थाः किमपि जल्पन्ति स्म, | तावद्गुरुभिरुक्तं - वत्सा ! न यूयं वित्थ, आकर्णयत कर्ण दत्त्वा यदद्य कोऽप्यतिथिः प्रातीच्छकः साधुरेष्यति, स मयि For Private & Personal Use Only jainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy