________________
ग्रहान्न विरराम, समीपस्थान् साक्षिणश्चाभाषत - अनेन तनयेन सह न मम प्रयोजनं, अत एतज्जनक एवासावमुं गृह्णात्विति तथा निश्चिते धनगिरिः साक्षिसमक्षं चिन्तारत्वमिव तं शिशुं गृहीत्वा पात्रबन्धे न्यवेशयत्, ततः स ज्ञानवान् भावश्रमणो जातोऽहमिति रोदनान्न्यवर्त्तत, धनगिरिणा च तद्भारभुग्नभुजेन स सिंहगिरिगुरूणामभ्यर्णमानिन्ये, तेऽपि तं तथा वीक्ष्य तरसोत्थाय भृतपात्रधिया यावत्पात्रबन्धमुपाददते तावत्तं बालमालोक्य महाभारत्वाद्वज्जोऽयमिति ब्रुवते स्म, अतस्तस्य वज्र इति नाम जगति पप्रथे । ततस्तं सुरकुमारानुकारमुदारलक्षणलक्षिताङ्गं वीक्ष्य सूरय इत्यवोचन् - यदेष प्रवचनाधारो भावीति सम्यग्रक्षणमर्हतीति निश्चित्य गुरुभिस्तपोधनाभ्यः स बालः पालनाय दत्तः, ताभिरपि स्तन्यपानादिहेतवे शय्यातरीभ्यः प्रददे, ततस्ताभिः खपुत्राणां स्तन्यपानमण्डनादि यदा यदा क्रियते, तस्यापि तदा तदा प्रासुकविधानेन विधीयते, गुरवोऽपि शिक्षां दत्त्वाऽन्यत्र विजहुः । अथैकदा सुनन्दा नन्दनस्नेहेन शय्यातरगृहेषु याताऽऽयातानि कुर्वती शय्यातरीभ्यस्तमयाचत, ताभिरपि साऽभ्यधीयतगुरुणामयं न्यासो नान्यस्मै जातुचिद्वितीयत इति निषिद्धापि सा प्रत्यहमेत्य तं स्तन्यपानादिकं कारयति स्म । एवं वर्षत्रये व्यतीते सूरयः समैयरुः, तदोभयोरपि पक्षयो राजसमक्षं शिशुहेतवे महान् कलहः समवृतत्, ततो राज्ञा धनगिरिरपृच्छयत-किमर्थमेनं दारकं सुनन्दायै न वितरसि ?, तेनाप्यभाणि - महाराज ! न मया स्वयमेष जगृहे, किं त्वनयैव जनसमक्षमस्मभ्यं वितीर्णः, ततोऽत्र को विवादः १, नृपोऽपि तदाकर्ण्य सर्व जनं तत्पक्षपातिनमवगत्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org