SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ सम्य० ॥११०॥ ष्यत् , तदेदानीमतुच्छं जन्मोत्सवमकरण्यद' इति । तासामबलानामालापान् शृण्वन्नबालमतिः स बालः सात-18 स० टी० जातिस्मृतिरिति चिन्तितवान्- कथं मम दत्तनिवृतिः सर्वसङ्गविरतिर्भवित्री ? सवित्र्यां मन्मोहमोहितवान्तायां. अतो मातृदुःखदानमनुचितमपि परमसुखलाभाय क्रियमाणं न दोषपोषाय, तस्मादम्बां तथा क्लेशयामि यथोद्विज्य मामुज्झति 'बालानां रुदितं बल मिति विचार्य तथा स रोदितुं प्रावर्तिष्ट यथा माता न शेते न भुड़े नोपविशति न |च गृहकर्माणि विधत्ते, एवं दुष्टकष्टाम्भोधिमनायास्तस्याः कथमपि षण्मासीमतिचक्राम । अत्रान्तरे पुरीपरिसरोद्याने सपरिकराः श्रीसिंहगिरिसूरयः समवासरन् , प्रवृत्ते च गोचरचर्यायाः समये धनगिर्यार्यसमितमुनी खाध्यायं विधाय कृतोपयोगी गुरुभिरुदीरितौ-वत्सावद्यास्माकं किञ्चिदुत्तमं निमित्तमजनि, ततो गोचरचर्यायां यदचित्तं सचित्तं वा वस्तु लभेतां तत्प्रतिग्राह्यमेवेति गुरुणाऽनुज्ञातौ ज्ञातेयसदनेषु भ्रमन्तौ तौ सुनन्दागृहं प्रविष्टौ । ततः सा करकमलसम्पुटगृहीताङ्गजा दुःखविधुरिता धनगिरिमवोचत्-एष तेऽङ्गजः षण्मासी यावन्महाक्लेशविवशया मया पालितः, सम्प्रति तु त्वमेनमुपादत्व, यथा त्वमपि मद्वत्सुखमनुभवसि, नाहमतः परं पालयितुं क्षणमपि क्षमा, तदनु धनगिरिरवादीत्-भद्रे ! यद्यनमहमुपादास्ये तदा पश्चात्तापं त्वमनुभविष्यसि, तस्मान्मैनं वितर, सहसा हि क्रियमाणं कृत्यं सन्तापाय संपनीपद्यते, यतः-सगुणमपगुणं वा कुर्वता कार्यजातं, परिणतिरवधार्या यत्नतः पण्डि-18 तेन । अतिरभसकृतानां कर्मणामाविपत्तेर्भवति हृदयदाही शल्यतुल्यो विपाकः॥१॥ एवमुक्ताऽपि सा तस्मादा ॥११०॥ Jain Education a l For Private & Personal Use Only R ainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy