SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ CSCR- सेवते कर्हि चित् ? ॥१॥ इतश्च तत्रैव धनपालश्रेष्ठिसुता कृतपरिजनानन्दा सुनन्दा पितरावित्यवादीत-मां दीयतां धनगिरये येन तं वशवर्त्तिनमातन्वे, तदा सा धनगिरिणा प्रोक्ता-भद्रे ! मा मदचोऽन्यथा विद्धि, यत्र च ते भ्राताऽऽर्यसमितः प्रात्राजीत् तत्राहमपि दीक्षा कक्षीकरिष्ये न संशयः । ततस्तन्निशम्य तद्रागाग्रहात्तमेव सोपायंस्त, विवाहानन्तरमेव तामवादीत् धनगिरिः-प्रिये ! संप्रत्यहं प्रतिज्ञातं व्रतमादाय खं वचःसफलयामि, सापि तद्वचः श्रुत्वा विषादेनाश्रुमिश्रलोचना तमवोचत्-नाथ ! मामनाथामेकाकिनीं विहाय कथं प्रयातासि ?, ततो मम सहायं सुतमुत्पाद्य यदभिरुचितं तत् कुर्याः, अवश्यं भोगकर्मोदयान्न छुट्यत इत्यवगत्य स तया समं भोगान् भुजानः सु-15 तलाभोन्मुखो दिनान्यतिचक्राम, अन्यदा सुनन्दायाः कुक्षिशुक्तौ सुखप्नसूचितः श्रीमदष्टापदमहातीर्थयात्रायातश्री-1 गौतमखामिप्रबोधिततिर्यग्जृम्भकामरो दिव्यं वपुरपहाय मुक्ताफलमिवावातारीत् , ततः प्रशस्तसुतलाभमङ्गलं विज्ञाय धनगिरिः सुनन्दामेवमुवाच-प्रिये ! सलक्षणो विचक्षणः कृतनयना नन्दनो भवत्या भावी, तदवलोकनेन ममापि 81 मोहमहोदधिमज्जनं भविष्यति, यतः-अहह गृही व नु कुशली, बवा संसारसागरे क्षिप्तः । यदि बत लभते पोतं, तेनापि निमजति नितान्तम् ॥ १॥ अतस्तनुजन्मनः प्रागेव प्रव्रजिष्यामीति प्रोच्य कथंचन तां मुक्कलाप्य महामहेन श्रीसिंहगिरिगुरुचरणमूले धनगिरिः प्रवव्राज । सुनन्दापि पूर्णेषु मासेषु प्राचीव प्रद्योतनं सुतमसूत, तत्र सूतिकासदने मदनभामिनीसमानलावण्याः कामिन्योऽन्योऽन्यं मिलित्वैवमालपन्-'यद्यस्य शिशोः पिता न प्रानजि CSCRECCESCRSS CircCS Jan Education a nal For Private &Personal use Only Cotainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy