SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ स०टी० सम्य० सत्यं, सामग्र्यभावान्न निवृत्तिमासादयन्ति, यदुक्तं-"सामग्गिअभावाओ, ववहारियरासिअप्पवेसाओ । भवावि ते Pअणंता, जे मुक्खसुहं न पावंति ॥१॥" अभव्यानां तु दुरापास्तैव मुक्तिकथा, अत एव भव्यशब्दोपादानं । 'धम्म ॥१०॥ कहित्ति' धर्मकथाऽस्यास्तीति धर्मकथी 'कहणलद्धिल्लुत्ति' कथने-व्याख्याने लब्धिर्यस्य स कथनलब्धिकः, कश्चनापि घटप्रदीपवत्स्वयमवबुध्यमानोऽपि न परं बोधयितुं क्षमः अत प्रवचनव्याख्यानाहः, यस्तु क्षीरमध्वाश्रवादिलब्धिमान् हेतुयुक्तिदृष्टान्तः परं प्रतिबोधयति स एव धर्मकथानुयोगार्हः, यदागमः-जो हेउवायपक्खम्मि हेउओ आगमम्मि आगमिओ। सो समयप्पन्नवओ, सिद्धंतविराहगो अन्नो ॥१॥ अत एव कथनलब्धिक इति विशेषणं युक्तियुक्तमिति गाथोत्तरार्द्धार्थः ॥३॥ भावार्थस्तु प्रावचनिकधर्मकथिकप्रभावकयोः श्रीवज्रवामिचरित्रेणैव प्रतन्यते । तथाहि-अस्त्यपहस्तितसमस्तक्लेशः श्रीमानवन्तिदेशः, तत्रामन्दसम्पदामादेशस्तुम्बकनामाख्यः सन्निवेशः, तस्मिंश्च यशोधवलिम्ना पराभूतधनदगिरिर्धनगिरिनामा नैगम इभ्यसुतो गुणवसतिर्वसति स्म, स शैशवादपि विज्ञातसर्वज्ञप्रवचनसारो विषयपराअखो दीक्षाभिमुखो यां यामिभ्यकन्यां पितरावाददाते तां तां न्यवारयत्, यदहं दीक्षामादास्ये, विरागसूचकं वच इत्यपीपठच्च-यस्यां नृत्यति निर्भरं प्रमुदिता माया महाराक्षसी, यस्यां मोह इतस्ततश्छलयति प्रेताधमः प्राणिनः । यस्यां प्रज्वलति स्मराग्निरनिशं तां कोविदः कामिनी, कल्याणी क इह श्मशानविषमामा RESS RSSC-CREC ॥१०९॥ en Education intona For Private & Personal Use Only
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy