SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ Jain E9 व्याख्या—प्रावचनिक एकः, धर्म्मकथिको द्वितीयः, वादी तृतीयः, नैमित्तिकश्चतुर्थः, तपखी पञ्चमः, विद्यावान् षष्ठः, सिद्धः सप्तमः, कविरष्टमश्चेत्यष्टौ ॥ ३२ ॥ प्रभावकस्वरूपं गाथापूर्वार्द्धनाह - कालोचियसुत्तधरो, पावयणी तित्थवाहगो सूरी । व्याख्या – 'कालोचियत्ति' काले- सुषमदुष्पमादिके उचितं - योग्यं सूत्रं - सिद्धान्तं श्रीपुण्डरीक श्रीगौतमादिवद्धरतीति कालोचितसूत्रधारः 'पावयणीत्ति' प्रवचनं - द्वादशाङ्गं गणिपिटकं तदस्यास्तीति प्रवचनीयुगप्रधानागमः यस्मा - न्मुक्तिमार्गमिच्छुभिः प्रवचनोक्तपरिशीलने यतनीयं, यदागमः - " जम्हा न मुत्तिमग्गे, मुत्तूणं आगमं इह पमाणं । विज्जइ छउमत्थाणं, तम्हा तत्थेव जइय" ॥ १ ॥ 'तित्थत्ति' तीर्थ चतुर्विधः श्रीसङ्घस्तस्य वाहकः - शुभे पथि प्रवर्तकः " सूरिः" आचार्यः स्यादिति गाथापूर्वार्द्धार्थः ॥ आद्यं प्रावचनिकस्वरूपमुक्त्वा द्वितीयं धर्मकथिकखरूपं गाथोत्तरार्द्धनाह पडिबोहियभव्वजण धम्मकही कहणलद्धिल्लो ॥ ३३ ॥ व्याख्या – 'पडिवोहिय'त्ति प्रतिबोधिताः - मिध्यात्वनिद्रामुद्रिताः सम्यग्ज्ञानभानुप्रकाशेनोजागरिता भव्याः-सेत्स्यन्तो जना- लोका येन स प्रतिबोधितभव्यजनः । ननु यदि भव्या मुक्तिगामिनस्तत्किं समसमयं शिवं न व्रजेयुः ?, For Private & Personal Use Only www.jainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy