________________
सम्य०
स० टी०
जग्मिवान् ॥ २५ ॥ निपीय केऽपि तद्वाक्य-मरन्दं मधुपा इव । श्रीमजिनमतोद्याने, जगुरर्हद्गुणावलिम् ॥ २६ ॥ श्रुत्वा सुराष्ट्रावणिजश्चरित्रं, कुलिङ्गिसङ्गं त्यजताशु भव्याः!। येन ध्रुवं दर्शनशुद्धिमाप्य, खर्गादिसौख्यैः सुहिता भवेयुः ॥ २७ ॥ मिथ्यादृष्टिपरिचये सुराष्ट्राश्रावककथा ॥
इतिश्रीरुद्रपल्लीयगच्छगगनदिनकरश्रीगुणशेखरसूरिपट्टावतंसश्रीसङ्घतिलकसूरिविरचितायां सम्यक्त्वसप्ततिकावृत्ती तत्त्वकौमुदीनाम्न्यां शङ्कादिपञ्चदूषणखरूपनिरूपणो नाम पञ्चमोऽधिकारः । पञ्चमं शङ्कादिदूषणाधिकारमुक्त्वा षष्ठं है प्रभावकाधिकारमाहसम्मसणजुत्तो, सइ सामत्थे पभावगो होइ । सो पुण इत्थ विसिट्ठो, निदिट्ठो अट्टहा सुत्ते ॥ ३१ ॥
व्याख्या-'सम्यग्दर्शनयुक्तः' अतीचाररहितसम्यक्त्वसहितः सामर्थ्य विद्यमाने-तत्तलब्धिविशेषसवलत्वे 'प्रभा-12 वकः' श्रीजिनशासनप्रभावनाप्रवीणधिषणो 'भवति' जायते, स पुनरत्र सूत्रे जिनप्रणीतसिद्धान्ते 'विशिष्टः' प्रोल|सज्ज्ञानादिगुणैः प्रकृष्टोऽष्टधा-अष्टभिः प्रकारैनिर्दिष्टः-कथित इति गाथार्थः ॥ ३१ ॥ तानेवाष्टौ भेदान् | स्पष्टयन्नाहपावयणी धम्मकही वाई नेमित्तिओ तवस्सी य। विजा सिद्धो य कवी, अट्टेव पभावगा भणिया ॥३२॥
॥१०॥
JanEducationa
l
For Private & Personal use only
Plinelibrary.org