SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ भुजते मठे। तत्र कङ्कणकेयूर-मुद्राभिर्मण्डितं करम् ॥ ११ ॥ प्रकटीकृत्य शाक्येभ्यो, ददानो मोदकादिकम् । समस्तं कृतवालोकं, सादरं बौद्धशासने ॥ १२ ॥ युग्मम् । तत्प्रभावमदोन्मादप्रोलण्ठाः शठचेतसः । अपनिन्द्यं तु निन्दन्ति, भिक्षवो जिनशासनम् ॥ १३ ॥ किमन्यैदर्शनैर्लोकाः!, सेवध्वं शाक्यशासनम् । यत्र देवा अपि सदा, सेवाहेवाकशालिनः ॥ १४ ॥ एकदा केऽपि सूरीन्द्रा, विद्यासिद्धा वसुन्धराम् । विहरन्तः समाजग्मुरुज्जयिन्यां महौजसः ॥ १५॥ श्राद्धैस्ते बौद्धवृत्तान्तं, ज्ञापिता ज्ञानभानवः । प्रेषिषन् शिक्षयित्वेति, गीतार्थों द्वौ महामुनी ॥ १६ ॥ सौगतानां मठे हस्तो, यदा निर्याति दैवतः । तं विधृत्य स वक्तव्यो, युवाभ्यामुच्चकैरिदम् ॥ १७ ॥18 अहो बुध्यख बुध्यख, मा मुह्य गुह्यकोत्तम !। स्मर पञ्चनमस्कारं, पाथेयं शिववर्त्मनः ॥ १८॥ मठायातौ यती बौद्धैर्निमध्येतां मदोद्धरैः । अन्तःप्रविष्टौ तौ हस्तमदाष्र्टी च विनिर्गतम् ॥ १९॥ निरुध्य हस्तं तौ व्यक्तमवक्तां गुरुवाचिकम् । तदाऽऽकर्णनतो यक्षः, प्रत्यबुध्यत तत्क्षणात् ॥ २०॥ अचिन्तयच हा धिग्मां, यस्य मे जिनशासने । विज्ञस्यापि कथं मोहोऽभून्मिथ्याष्टिसङ्गतः? ॥ २१॥ आविर्भूय ततो यक्षः, सौगतांस्तदुपासकान् । अपरानप्युवाचोच्चैः, श्रयतां भो! वचो मम ॥ २२ ॥ अन्ये दर्शनिनः सर्वे मिथ्यारूपाः प्रकीर्तिताः । तथ्यमेकं तु विज्ञेयं, श्रीजिनेश्वरशासनम् ॥ २३॥ तद्भो मिथ्यादृशस्त्यक्त्वा, श्रयध्वं जिनशासनम् । यथा करतलक्रोडीस्यात् श्रीः खर्गापवर्गयोः ॥ २४ ॥ इत्युदीर्य ततो गत्वा, सूरीनत्वाऽतिचारजम् । पापमालोच्य जैनं स, मार्गमुद्भाव्य Jan Education International For Private &Personal use Only www.inbrary on
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy