SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ स०टी० सम्यक परिचयकरणं तु संथवणं ॥३०॥ ॥१०७॥ व्याख्या-तैर्मिथ्यादृष्टिभिरेकत्र संवासात् परस्परालापादिजनितः परिचयस्तस्य करणं तु संस्तवनमिति । एकत्र वासे हि तत्प्रक्रियाश्रवणावलोकनयोदृढसम्यक्त्वस्यापि दर्शनभेदः सम्भाव्यते, किमुत मन्दबुद्धेनवधर्मस्य ?, अतस्तत्संस्तवोऽपि सम्यक्त्वदूषणमिति गाथार्थः ॥ ३०॥ भावार्थस्तु सुराष्ट्रवासिश्रावकदृष्टान्ताद् ज्ञेयः॥ हा स चायम् देशे श्रीमत्सुराष्ट्रायां, सर्वराष्ट्रविभूषणे । कोऽपि सुश्रावको जज्ञे, सम्यग्ज्ञानादितत्त्ववित् ॥१॥ दु प्रापभिक्षे दुर्भिक्षे, प्रवृत्ते तत्र दैवतः। सोऽन्यदा बौद्धसार्थेन, प्रतस्थेऽवन्तिमण्डलम् ॥२॥ स शाक्यैरोच्यतान्ये धुरस्माकमुपधिं यदि । मार्गे वहसि तत् तुभ्यं, दद्महे भोजनादिकम् ॥ ३॥ तद्वचः क्षुधितः सोऽङ्गीकृत्य तद्भाकण्डभृत्पथि । व्रजन्नश्नंश्च तद्भावभावितात्माऽभवद्भशम् ॥४॥ सौगते शासने प्रीति-मतीव दधतोऽस्य तु । मार्गे यातः समुत्पेदे, रोगोऽसाध्यतमस्तनौ ॥ ५॥ अक्षमः सह सार्थेन, गन्तुं पथि स तस्थिवान् । गैरिकारक्तवस्त्रे-18 णा-च्छाद्य तं सौगता गताः ॥ ६॥ सोऽपि दूषितसम्यक्त्वो, रोगतः पञ्चतां गतः । यक्षीभूयावधिज्ञानं, प्रायुङ्काव्यक्तचेतनः ॥ ७॥ मया पूर्वभवे किं किं, कृतं सुकृतमद्भुतम् ? । येन प्राप्तेदृशी यक्षपदवी सम्पदोज्ज्वला ॥८॥ रक्तेन वाससाच्छन्नं, तदा स खकलेवरम् । मार्गे दृष्ट्वा बहिर्दृष्टिहृद्येवं पर्यभावयत् ॥९॥ अनुभावेन भिक्षूणां, लब्धा देवश्रियो मया। तन्वेऽहमपि माहात्म्यमतोऽमीषां हि शासने ॥१०॥ वटवासी स यत्रामी, भिक्षवो HALKAMALSORRANASI ॥१०७॥ Jan Educati onal For Private & Pasonal Use Only Khainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy