SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ सम्यक ॥१११॥ किमपि हृदि विचिन्त्य च सभासमक्षमेवमादिक्षत् -भो भोः शृणुत न्यायं, येनाकारितः सन्नेष शिशुरभ्येति तस्यैवैष8 स० टी० नान्यस्य, किन्तु पूर्वमबला जननी समाह्वयत्वेनं, ततो जनक इति । तदनु माता राजसभायां भक्ष्यभोज्यनानाक्रीडनकफलानि वस्तूनि मन्मनोलापपटुचटुसकरुणागद्गदखरपूर्व दर्श दर्श समाह्वास्त नृपवामपार्श्ववर्तिनी, वज्रोऽपि दुष्प्रतिकारौ मातापितराविति विदन्नपि परं सबोलङ्घनपातकमनन्तसंसारपरिभ्रमणाय जायत इति मत्वा तद्वस्तु दृशाऽपि परमयोगीव न पश्यति स्म, तदनु मेदिनीश्वरदक्षिणपार्श्ववर्तिश्रीसकमध्यवर्तिना धनगिरिणा चारित्रमहाराजविजयविजयन्ती रजोहरणमुद्रां दर्शयित्या शिशुरभाष्यत-वत्स ! यदि ते दीक्षाग्रहणेऽभिलाषस्तदैनां जिनमुद्रामादत्व, ततो बज्रो वज्रवन्मोहमहीजं विदार्य प्रव्रज्यामादातुकामः सङ्घोन्नतिं च चिकीर्षुस्तामग्रहीत्, सङ्घोऽपि जयति जयति जिनशासनमिति सानन्दः सिंहनादमकार्षीत्, सुनन्दाऽपि विगतानन्दा मनस्येवं विममर्श-मम पतिम्रातृपुत्रा गृहीतचारित्राः, अतोऽहं केन हेतुना गृहवासे वसामीति जातसंवेगा सप्तक्षेत्र्यां धनं नियुज्य श्रीसिंहगिरिसूरिपादमूले प्रवत्राज, वज्रोऽपि त्यक्तस्तन्यपानो विहाराक्षमतया वतिनीनामुपाश्रये गुरुभिः स्थापितः, स च सोपाङ्गामेकादशाङ्गी ताभ्यः पठन्तीभ्यः समाकर्णवन् प्रज्ञानिधिः सुखेनैवाग्रहीत्, क्रमेणाष्टाब्ददेश्यो गुरुभिर्दीक्षयित्वा खसमीपं स्थाप्यत। तेऽपि क्रमेण विहरन्तोऽवन्त्यामुद्यानमठेऽवस्थिताः, तदा वारिदे वर्षति भिक्षाग्रहणपराअखेषु साधुषु वज्रमुनिपूर्व ॥११॥ भवसुहृदस्तिर्यग्जृम्भकदेवास्तद्देशवर्तिनस्तं मुनिमालोक्य जहर्पः, अचिन्तयंश्च-कियानस्य संयमे परिणाम इति ते SCIENCESCORRICANAGACHECCESCR-CA JanEducationalional For Private & Personal Use Only
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy