SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ RESSNEHALKARRECENERATOR गमयामासतुः । अथ तत्सैनिका अपि क्रमेण शोधयन्तः प्रभूततरैर्वासरैर्निजखामिनौ तत्रावापुः । ततस्तावपि सैन्ययुतौ समन्तात्कृतप्रवेशमहोत्सवे स्वपत्तने प्रविविशतुः । ततो राजाऽरण्यजया क्षुधया पीडितो जडतया कान्दविकानादिदेश-मत्कृते चपलकचनकवल्लाद्यारभ्य मोदकादिसरसरसवतीपर्यन्तः सर्वरसाहारपाकः करणीयः, यथाऽहं सर्वाहाररसास्वादमनुभवामि चिरकालेन । ततः सूपकारा अपि पृथक् पृथक सर्वान्नपाकमाधाय राज्ञः पुरो ढौकितवन्तः। सोऽप्यत्यन्तक्षुतक्षामकुक्षिः स्वदेहस्थितिमजानानः श्राद्धोपविष्टवाडव इव वडवाग्निरिव च सर्वग्रसनेनाप्यधृतिमांस्तदाहारादिकमन्यान्यरसोत्तरतया खैरमाहारयन्नसुर इव न तृप्तिमाप । ततो जठरान्तरेऽमान्तमप्याहारमतिलोलुपतया लपनान्तर्निक्षिप्याङ्गुल्यादिनाऽग्रतोऽग्रतश्चम्पयन्नसौहित्यसौहृद्यमश्नुते स्म, तस्माद् समुद्भूताजीर्णेन तूर्णमेवोत्पन्नगूढविसूचिकाविधुरितकाय इतस्ततो वेल्लनादिनाऽप्यसभातसातोऽनन्यसामान्यां वेदनामनुभूयार्तध्यानपरो नृपः सद्यो विपद्य दुर्गत्यतिथितामभजत् । अथ, यथार्थनामा मतिसागरो मन्त्री चिकित्सादिक्रियाकुशलः खशरीरस्थिति जानन् वमनविरेचकादिना शोधनमाधायोचिताहारखीकारेण वपुः पुष्णन्नारोग्यश्चिरकालं सुखभाग बभूव । अत्रोपनयः-यथा राजामात्यौ तथा संसारिणो जीवाः, तत्र ये किमपि तपश्चरणादिकबाह्यगुणमात्रमप्यालोक्यान्यान्यदर्शनाकाङ्क्षिणः पवनप्रेरितध्वजपटाइवावस्थानमलभामानाः, ते ह्याहारलम्पटनृपवदप्राप्ततृप्तयो दुर्गतिभाजन भवेयुः, ये तु विनिश्चितपरमार्थाः क्रियाकल्पविहितशुद्धयः सम्यक्त्वलम्भनिर्णीतगुणदूषणा निःसारतयाऽपह Jain Education Ic onal For Privale & Personal Use Only Rejainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy