SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ सम्य० स.टी ॥९४॥ ACROCOCCALCOLOGEORK तस्य चाभूत्यभूतविचारचातुरीलहरिसागरो मतिसागरो नाम मत्रीश्वरः-उपायचतुरा यस्य, धिपणा सर्वतोमखी। रोहाभयकुमारादिप्रतिभावर्णिकायते ॥ १॥ अन्यदा सुधासाधर्मिकायां सामान्तामात्यमण्डितायां सभायामासीनस्य महीनस्य प्रतिहारनिवेदितः कश्चिदश्वव्यवहारिकस्तेजोभटजकाम्बोजपारसीकवाहीकप्रभृतिनीवृत्समुद्धता|श्चतुरतरगतिपराभूतपुरुहूतवाजिनो वाजिनः समादायाजगाम । राजाप्यश्वपरीक्षादक्षतया शेषानशेषानश्वानसारान् परिहृत्य चिन्तामण्याद्यावर्तविवर्त्तमनोहरं चपलचपलाविलासहासकारिगतिप्रसरं हिमकरकिरणधवलं तुरगयुगलं जग्राह । ततस्तद्रहःपरीक्षेक्षणाय क्षणादश्चवारमानितयाऽवमत्यामात्यादिराजलोकप्रतिषेधोक्तिं स्वयं मूलामात्येन सह राजा वाजिनमारुह्य वाह्यालीमहीतलमलञ्चकार सारसैन्यपरीवारः । तत्राधोरितवल्गितोप्लुत्युत्तेजितोत्तेरितमण्डलीभ्रमादिगतिदर्शनचमत्कृते राजलोके सति राजामात्यौ वेगवत्तादर्शनाय दत्तकशाप्रहारावधरीकृतपवनजवनाभ्यां खेलबत् दूरीकृतखचक्राभ्यां खभाववक्राभ्यां कुशिष्यवद्विपरीतशिक्षिताभ्यां ताभ्यां तााभ्यां क्वाप्यमानुषे दत्तदैन्ये शून्येऽरण्ये पातितौ । श्रमक्षुत्पिपासाविधुरितशरीरौ मूर्छामतुच्छामनुभूय शिशिरसमिरप्रेङ्खोलनाप्राप्तचैतन्यौ सर्वतः प्रसारितनयनौ संसारमिव दुरन्तकान्तारमसारतरुनिकरपरिपूरितमवलोकयन्तौ परासूभूततुरगौ व्यालाद्यवलोकनकान्दिशीको जलफलनिभालनाय पर्यटन्तौ वापि खजीवितव्यमिव निर्झरमेकमापतुः । तत्र खानपानीयपानादिना खस्थचित्तौ तन्निकटवर्तिफलमूलकन्दाद्याहारयन्तौ दैवस्थितिचिन्तनेन मनो धीरयन्तौ कियन्तमपि समयं. AAAAAAAAS RSS Jain Education Intemational For Privale & Personal Use Only wwwane brary 09
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy