SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ USALOC A LGARCANCELLERS यूषयूपद्रवमिव नियतं श्रोत्रपात्रैर्निपीय । शङ्कादोषापहारात्तनुत भवभृतोऽर्हन्मते सन्मतिं भो!, येन त्रैलोक्यलक्ष्मीः श्रयति झगिति कः सर्वदाऽऽनन्ददात्री ॥ ९३ ॥ आशङ्कायामार्याषाढकथा । आद्यं शङ्कादोषमुक्त्वा द्वितीयं कालालक्षणं दूषणं गाथोत्तरार्द्धनाह, कंखा कुमयभिलासो दयाइगुणलेसदसणओ ॥ २९ ॥ व्याख्या-काङ्क्षा कुमताभिलापः-अन्यान्यदर्शनग्रहणेच्छा कस्माजायते ? 'दयादिगुणलेशदर्शनात्' क्वापि कमपि । जीवदयादिकं गुणमवलोक्य तदेव दर्शनमाकाङ्क्षति, सा च द्विधा-सर्व विषया देशविपया च, तत्र सर्व विषया सर्वपाखण्डिधाकाङ्क्षारूपा, देशाकाङ्क्षा त्वेकादिदर्शनविषया यथा-सुगतेन भिक्षणामक्लेशको धर्म उक्तः स्रानानपानविलेपनाच्छादनशयनीयादिषु सुखानुभवनद्वारेण, तथा-परिव्राजकलौकायतिकब्राह्मणादयोऽपि विषयानुपभुजाना एव परलोकेऽपि सुखेन युज्यन्त इति साधीयानयमपि धर्मः। एवमाकाङ्क्षाऽपि परमार्थतोऽर्हत्प्रणीतागमानाश्वासरूपा सम्यक्त्वं दूषयतीति गाथार्थः ॥ २९ ॥ भावार्थस्तु जितशत्रुनृपमतिसागरमत्रिदृष्टान्तात् ज्ञेयः, स चायम्___ अस्ति खस्तिमत्समस्तसम्पदावासं वखोकसारासङ्काशं सजनावदानप्रवरं वसन्तपुरं नाम नगरम् , यत्रोचसौधशृङ्गाग्रजाग्रदृध्वजपटोचयः । खनंदीनीरसम्पृक्तो, बुधैरपि न लक्ष्यते ॥ १॥ तत्र यथार्थनामा जितशत्रुमहीमहेन्द्रो राज्यं पालयति स्म-यस्यासिः स्वाधिनाथस्य, जगद्विजयसम्भवाम् । प्रशस्तिं शस्तवर्णोधैर्व्यनक्तीव निरन्तरम् ॥२॥ Jain Education inalll For Private &Personal use Only Sinelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy