________________
सम्य०
॥ ९५ ॥
6%
स्तितापरदर्शनाः तेऽमात्यवत्परमसुखभाजः स्युः । श्रुत्वेति भूमिपतिमन्विचरित्रमत्रा - काङ्क्षाख्यदूपणमिदं परिहत्य सम्यक् । सम्यक्त्वशोधनविधावधिकं यतध्वं येन श्रियः शिवपुरस्य वशीभवेयुः ॥ १ ॥ काङ्क्षायां नृपमत्रिकथा । द्वितीयमाकाङ्क्षादूषणमुक्त्वा तृतीयं विचिकित्सादोषं गाथापूवार्द्धनाह
विचिगच्छा सफलं पइ संदेहो मुणिजणम्मि उ दुगंछा ।
व्याख्या - विचिकित्सा - जिनवचनाराधनफलं प्रति सन्देहः, सा हि सत्यपि युक्त्यागमोपपन्नेऽर्हद्धर्मेऽस्य महतपसः क्लेशस्य सिकताकणकवलवन्निःस्वादस्यायत्यां फलसम्पद्भवित्री ? अथ क्लेशमात्रमेवेदं निर्जराफलविफलमिति ?. उभयरूपा हि क्रिया विलोक्यन्ते-सफला निष्फलाश्च, कृषीवलादीनामिव तथेयमपि सम्भाव्यते । यदाह - अवरपुरिसा जहुच्चियमग्गचरा घडइ तेसि फलजोगो । अम्हेसुं धीसंघयणविरहओ न तहा तेसि फलं ॥ १ ॥ इति विचिकित्सा भगवद्वचनानामविश्वासरूपत्वात्सम्यक्त्वदोषः, इयं तु शङ्कातो भिद्यते, शङ्का हि सकलपदार्थभाक्त्वेन द्रव्यगुणविषया, विचिकित्सा तु क्रियाविषयैव, अतः स्वफलं प्रति सन्देहः, यद्वा मुनिजनेषु जुगुप्सा, सा च सदाचारमुनिविषया, यथा - अस्त्रानेन प्रखेदजलबिन्दुक्लिन्नमलत्वाद्दुर्गन्धवपुप एते, को दोषः स्यात् ? यदि प्रासुकवारिणाऽङ्गप्रक्षालनं कुर्वीरन्निति । अत इयमपि भगवद्धर्मानाश्वासरूपत्वात्सम्यग्दर्शनदोष इति गाथापूर्वार्द्धार्थः ॥ भावार्थस्तु शुभम - तीदृष्टान्तेन निष्टक्यते
Jain Education International
For Private & Personal Use Only
स० टी०
।। ९५ ।।
www.jainelibrary.org