________________
SARICROCHAKRAM.
भक्त्वोचे तं स दारकः । अप्कायाख्यस्य मेऽप्येवं, बभूव तव संश्रयात् ॥३५॥ तस्याप्यामोठ्य स ग्रीवां, गृहीहात्वाऽऽभरणानि च । गच्छन् पुरस्तादद्राक्षीत्तेजःकायाह्वयं शिशुम् ॥३६॥ भूषणान्याददानोऽसौ, सूरिस्तेन न्यवार्यत ।
ऊचे च कथ्यमानं त्वं, शृणुष्वैकं कथानकम् ॥ ३७॥ आश्रमे क्वाप्यभून्मूलफलाशी तापसाग्रणीः । अग्नित्रितय-18 माहुत्या, पोषयामास सोऽनिशम् ॥ ३८ ॥ उष्णकालोग्रवातेनोद्दीपिना जातवेदसा। दग्धं स खोटजं दृष्ट्वा, तटस्थानूचिवानिति ॥ ३९ ॥ यं तर्पयाम्यहं शश्वन्मध्याज्यर्जातवेदसम् । स ददाहोटजं मेऽद्य, जातं शरणतो भयम् ॥४०॥ यद्वा केनापि हि व्याघ्रभीत्याऽग्निः शरणं श्रितः । दग्धं तदङ्गं तेनैव, जातं शरणतो भयम् ॥४१॥ तन्ममापि प्रभो ! जातमग्निकायस्य सम्प्रति । विज्ञोऽसीति ब्रुवन् भूषामादात् छित्त्वा स तद्गलम् ॥४२॥ चतुर्थों दारकोऽदर्शि, गच्छताऽग्रेऽथ सूरिणा । सोऽप्यूचे मुष्यमाणस्तं, कथामेकां शृणु प्रभो!॥४३॥ महाबलः पुमानेको, नीरोगः सुभगाग्रणीः । खातिकागाधपानीयतरणप्रवणः सदा ॥४४॥ कोऽपि तं वातभनाझं, दण्डधारिणमब्रवीत् । दृढाङ्गः पूर्वमासीस्त्वमधुना यष्टिभृत्कथम् ? ॥४५॥ सोऽप्यूचे पवनो योऽभूद्रीष्मत्तौं सुखकृन्मम । भज्यते तेन कायोऽयं, जातं शरणतो भयम् ॥ ४६॥ ममापि वायुकायस्य, जज्ञे तत्साम्प्रतं प्रभो! । प्राग्वदेतं प्रजल्पन्त, सोऽमुष्णाच्छ्रमणबुवः ॥ ४७ ॥ प्रस्थितोऽग्रे ततोऽद्राक्षीत्पञ्चमं दारकं पुरः । भूषणाच्छेदिनं सूरिं, प्रति सोऽप्यवदत् । कथाम् ॥ ४८ ॥ खगश्रेणिनिवासस्य, विशालस्य तरोरधः । प्ररूढा तं लता सर्व, वेष्टयामास मूलतः ॥४९॥
RANI
ORCAMSO-NCREOGRESCR
Jain Educatan
For Privale & Personal Use Only
anelbrary og