SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ सम्य० ॥९१॥ ACCORNER जापथ्यदर्शयत् ॥ २० ॥ भूपणभूपितं दृष्ट्वा, तं सूरिरजने वने । अध्यायदस्यालङ्कारैर्भोगान् भोक्ष्येतरां हृतैः ॥ २१ ॥18 स० टी० जिघृक्षुर्भूषणान्यस्य, यावत्प्रासारयत्करम् । तावत्तेन बभापे स, कथामेकां शृणु प्रभो! ॥ २२ ॥ अलङ्कारास्त्वदा-18 यत्ताः, पश्चादपि विभो ! मम । ततः स तेनानुज्ञातः, पृथ्वीकायशिशुर्जगौ ॥ २३ ॥ कापि ग्रामे कलाशाली, कुलालः ख्यातिमानभूत् । मृत्तिकोद्भूतभाण्डाद्यैरपुषत्स कुटुम्बकम् ॥ २४ ॥ अन्यदा स खनन् खानि, पतन्त्या च तयाऽधिकम् । समाक्रान्त इति माह, तटस्थितनरं प्रति ॥ २५ ॥ अदां यया बलिं भिक्षा, धिनोमि च कुटुम्ब-15 कम् । सा मामाकामति क्षोणी, जातं शरणतो भयम् ॥ २६ ॥ सोऽहं दस्युभयात्पृथ्वीकायनामा कुमारकः शरणं त्वां प्रपन्नोऽस्मि, त्वं मां मुष्णासि चाधुना ॥ २७ ॥रे दारक ! विदग्धोऽसीत्युक्त्वा छित्त्वा च तद्गलम् । सूरिहीतालङ्कारः, खं पात्रं समपूपुरत् ॥ २८ ॥ प्रस्थितोऽथापरं बालं, स पुरो वीक्ष्य साभृतिम् । तस्य भूपामु-12 पाहतु, करं व्यापारयत्कुधीः ॥ २९ ॥ सोऽपि तं प्रति दृष्टान्तमेकं वक्तुं प्रचक्रमे । तालाचरः पटुर्वाचाऽभवत्पाटलनामकः ॥ ३० ॥ विवेश सोऽन्यदा गङ्गा, गन्तुमिच्छुः परं तटम् । तस्यां चोपरि वृष्टयाऽभूत्तदा पूरो दुरुत्तरः ॥ ३१ ॥ श्रोतसा हियमाणं तं, तीरसंस्थोऽखिलो जनः । विलोक्याभापतात्यन्तस्मितपूतरदच्छदः ॥ ३२॥ हे प्राज्ञ! पाटलाभिख्य !, गङ्गा त्वां वहते ततः। किञ्चित्सूक्तं पठेतहीत्युक्तस्तैः सोऽप्यवोचत ॥ ३३ ॥ बीजानि येन ॥९ ॥ रोहन्ति, जीवन्ति च कृषीवलाः । म्रियेऽहं तस्य मध्यस्थो, जातं शरणतो भयम् ॥ ३४ ॥ पाटलस्येति वृत्तान्तमु II en Education interna For Private & Personal use only www.jainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy