________________
सम्यक
स०टी०
श्रावकधर्ममङ्गीकृत्य सूरीश्वरांश्च प्रणिपत्य खप्रासादमाससाद । ततः श्रीजिनशासनप्रभावनप्रवणो धरणीरमणो विशुद्धतरं धर्ममारराध । अन्यदा सुधायां सभायां शक्रसिंहासनासीनो विमानवासिसेवितपदद्वयः सौधर्माधीश्वरो धर्मपक्षपाती सर्वसुपर्वसमक्षं नरवर्मनृपतेर्मनसाऽपि सुरासुरैरचालनीयं सम्यक्त्वमुपश्लोकितवान् । ततस्तद्वचःकशाप्रहारतः शूकलाश्च इव सुवेगनामा देव उत्प्लुत्य पर्षत्प्रत्यक्षमङ्गुलीमुद्यम्य तनियमभङ्गकृतप्रतिज्ञो वैक्रियादिलब्धिदुमंदो मङ्घ महीतलमवातरत् । तस्मिंश्च समये स राजपाटिकायाः प्रतिनिवृत्ताय नरवर्मनृपाय यतिजनमावालगोपालाङ्गनाविगर्हितं नरकपातुकपातकव्यापारसंसेवनप्रवणं तत्सम्यक्त्वनिश्चलत्वविलोपायादीशत् । राजाऽपि तमसाध्वाचारमनगारवारमालोकयन्नपि मनसा मनागपि न विपरिणतिमाप, केवलमिति चाचिन्तयत्-कषादिशुद्धसुवर्ण|मिव श्रीजिनशासनं सदोषतां कदाचनापि न श्रयति, किन्तु गुरुकर्मत्वाद्विशुद्धेऽपि सितवाससीवाहन्मते मालिन्य- मुपजनयन्ति दुर्वृत्ताः, अतो मया सर्वप्रयत्नेन शासनमालिन्यापोहाय प्रयतनीयमिति विमृश्य सुधाकिरा गिरा नरवरो दुर्व्यापारात्तान् न्यवारयत् । अथ सुवेगसुरोऽपि तच्छिक्षावैचक्षण्येन सम्यग्दर्शनाचालनीयत्वेन सत्यीभूतपुरुहूताकूतत्वेन च रजितः प्रकटीभूय श्रीनरवर्मनृपमुपशुश्लोक-राजंस्त्वमेव धन्योऽसि, यथार्थी यस्य वासवः। खयं हि कुरुते श्लाघां, सम्यक्त्ववान्तशुद्धिजाम् ॥ १॥ इति निवेद्य खशीर्षान्मुकुटमुत्सार्य नृपवर्याय वितीर्य च मागध इव वर्णनामुखरमुखो बर्हिर्मुखो दिवमाससाद । ततःप्रभृति विशिष्य नरवर्मराट् सम्यक्त्वमूलं गृहमेधिधर्म चिरतरमासेव्य
॥७४॥
Jan Educatan
nal
For Privale & Personal use only
www.jainelibrary.org