________________
स०टी०
॥७३॥
कल्पवृक्षः? किमित्यरजोऽम्बराण्यम्बराणि रजसा रज्यन्ते,तत्प्रसद्य सद्यो वदमदग्रतः, ततोवाचंयमोऽपितं प्रत्युवाचसुरपुङ्गव ! समासन्नस्तव च्यवनावसरः, सुरोऽपि व्याकरोत्-नाथ ! कोत्पत्ति भवित्री ?, कथं वा मम बोधिबीजलाभः ? अत एव तदपि दमीश्वर ! वद मन्मनस्तुष्टिपुष्टये, ऋषिवरोऽपि व्याजहार-अमरोत्तम! इतो देवभवा-1 ईवीं तनुं त्यक्त्वा श्रीनरवर्मनृपतेर्हरिदत्ताभिधानस्तनयो भविष्यसि, ततोऽस्यैव हारस्य दर्शनात्तव बोधः सम्पत्स्यते न संशय इति विगतद्वापरः स सुरः सूरिमानम्य वग्ग जगाम । ततस्तु महाराज! क्षितितलमिलन्मौलिना मयाऽमुष्यहारस्योत्पत्तिव्यतिकरं परिपृष्टो मुनिप्रष्ठो व्याचष्टे-पुरा प्रपञ्चितश्रीप्रपञ्चायां श्रीअमरचञ्चायां महानगयों सागरोपमैकपरमायुरसुराधीश्वरश्वमरेन्द्रः समुदपद्यत, स सकलान्युत्पत्तिकृत्यानि कृत्वा लोकपालानीकाधिपतित्रायस्त्रिंशसचिवात्मरक्षप्रमुखपरिकरपरिकरितः खसभायां सिंहवत्सिंहासनमलञ्चकार, तदोर्द्धमवलोकयन् खशीर्वोपरि सिंहासनासीनं स सौधर्माधीश्वरं निरीक्ष्य सम्भवदमर्षप्रकर्षोऽसमानविग्रहतया परिकरण निवार्यमाणोऽपि मानी युयुहै त्सया प्रथमकल्पं सोऽल्पधीर्जगाम, ततस्तद्भयभ्रान्ते त्रिदशदेवाङ्गनावगर्गे कोपाटोपान्धकारितवक्त्रेण वत्रिणा बने।
तस्योपरि मुक्त तद्भिया चाधोमुखे चमरे पलायमाने तद्गलकन्दलादयं हारो धरायामाप तदितो द्वीपादसङ्ख्याततमे I द्वीपे । स च विधिनियोगाद्विद्युत्प्रभासदा मत्पूर्वभवभ्रात्रा प्रापे। तेनाप्ययं मह्यं प्रीत्या प्रददे । इत्यहं ज्ञातहारवृ-18॥७३॥ तान्तो गुरुं प्रणय पञ्चविंशतिवर्षाणि यावद्भरि भूरि समुपायं नृवर्य! त्वदन्तिकमागम, स्वामिन् ! स च सुरस्त्वदङ्ग-
Hamn Education
Compitional
For Private &Personal use Only
jainelibrary.org