SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १३ Jain Education: धानसावधानमानसो गरुडोपपाताध्ययनं गुणयन् मासक्षपणी दिवाकरनामा महर्षिरास्ते स्म । ततो जातासनप्रकम्पः सम्पासम्पातपीतः पक्षतिस्फीतद्युतिद्योतितदिग्मण्डलो वैनतेयः समेत्य तं यतिपतिमभिनत्य विरचिता - अलिकुड्मलः पुरस्तादुपाविक्षत् । तन्निरतिशयातिशयात्तयोर्नृपसुतयोः शरीरात्खरकरप्रसरनिरस्तान्धकारनिकर इव गरविकारो दूरमपासरत् । गरुडोऽप्येकतानमना महात्मना गुण्यमानं गरुडोपपाताध्ययनं शृणोति स्म । ततो विध्वस्तसमस्त विषावेग वेगादुत्थाय राजसुतौ सआताश्चय मुनिसमीपमागत्य यावत्तस्थतुः, तावत्पक्षिखामिनाऽऽचचक्षे भो राजनन्दनौ ! यद्येष महर्षिरत्र नाभविष्यत् तदा भवन्तौ विमातृदत्तगरौ व्यपत्स्येतां, अत एनमेव सम्यक् सेवेतामित्यनुशिष्य शिष्याविव मुनिमभिनम्य स्वयं विनतासुतः स्वास्पदमाससाद । अथ तौ विमातुस्तद्वैशसं विशसनान्तं विज्ञौ विज्ञाय सज्ज्ञानज्ञा (जा) तसम्यग्दर्शनौ संसारापारकान्तारसंसरणरीणौ समुल्लसद्वैराग्योदयौ दिवाकरमहर्षिपादमूले प्रव्रज्य चिरतरं दुश्चरतपश्चरणमाचर्य विशुद्धाध्यवसायौ विपद्य प्रथमदेवलोके विद्युत्प्रभविद्युत्सुन्दरनामानौ विमा - नवासिनावभूतां, ततो विद्युत्प्रभः सुरसौख्यान्यनुभूय च्युतो विजयवत्यां पुर्या मदनवर्मनृपस्य परमसुहृन्मदनदत्तो बभूव स चायं धनार्जनाय परिभ्राम्यन्नत्राजगाम, अत एतदर्शनादेव तव पूर्वभवाभ्यासवशादासीदसीमः प्रमोदः । सोऽपि वैमानिकः सूरिमुखारविन्दादेतदाकर्ण्य मुदितमना एनं हारं मम कण्ठपीठे स्वयं चिक्षेप, तदनु स सुरः प्रह्न| शिराः सूरिं प्रत्यभाणीत्, -भगवन् ! ममाधुना किमिति निद्रा विमुद्रयति नेत्रे ? किमिति निष्प्रकम्पोऽपि कम्पते For Private & Personal Use Only jainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy