SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ सम्य० ॥ ७२ ॥ उभयथापि जीवनार्थी हिमांशुमिव शीतलेश्यं शेषाहिमिव क्षमाधारं सागरमित्र गम्भीरं शशिनमिव सहषि - परिपन्निषेव्यं नाकिनायकमिव विविधविबुधाराधितपादारविन्दद्वन्द्वं घनाघनमिव पीयूषयूपसजुषोपदेशवृष्टया विवेकिजनमनोवनीं सिञ्चन्तं श्रीगुणधरनामानं सूरिमपश्यम् । तत्र च सदेवीकं देवमेकं स्फारतारतरहारालङ्कृतगलकन्दलं सर्वाङ्गीणाभरणविभ्राजमानमपश्यं, तदाऽहमपि भगवद्वचोऽमृतपानतो द्विधापि विलीनतृष्णो मुनिवृन्दारकपादारविन्दमभिवन्द्य यावदुपाविक्षं, तावत्स सुरः पुनः पुनम परमप्रेम्णा प्रेक्षमाणः सूरिमप्राक्षीत्-भगवन्! ममास्मिन् पुंसि परमबन्धाविव निरुपचरिता प्रीतिः केन हेतुना स्फातिं याति ? । गुरवोऽपि दशनद्युत्योद्योतयन्तो | दिग्मुखमभाषन्त - त्रिदशपुङ्गव ! सावधानीभूय श्रूयतां श्रुतिसुखकरं स्वरूपमिदम्, तथाहि — अस्ति स्वस्तिक - | शिम्बा कोशाम्बी नाम नगरी, तत्र शत्रुकृतविजयो विजयो नाम राजा, तस्याश्विनीकुमाराविव विजयवैजयन्ताभिधौ तनयौ, तयोर्दैवयोगाच्छैशवेऽपि कीनाशपाशवर्तिनी अजनि जननी, ततो धात्र्या लाल्यमानौ विज्ञातसकलकलाकलापौ तौ क्रमेण कुसुमशरकुञ्जरक्रीडावनं यौवनं प्राप्नुवातां, ततस्तयोरौदार्यधैर्यशौर्यादिगुणरञ्जितं यौवराज्याभिषेकोन्मुखं | राजानं विज्ञाय मत्सरविच्छुरितान्तरा सपत्नीमाता क्रीडोद्याने क्रीडतोर्विजयवैजयन्तयोरन्तकृते विषमविषभावितमोदकान् प्रेषयामास ताभ्यां च सरलाशयाभ्यां त एव मोदका बुभुजिरे, ततो बहलगरलब्यापमूर्च्छितौ नीलमणिघटितपुत्रकाविव ताविलापीठे लुलुठतुः । तत्र चाशोकतरोर्मूले तद्बन्धुरिव निरुपचरितोपकृतिपरप्रकृतिः पीनध्यानसमा Jain Education International For Private & Personal Use Only स० टी० ॥ ७२ ॥ www.jainlibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy