SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ सम्य० ॥ ७१ ॥ टम्भमासाद्य, कूर्मवन्मुदितो नृपः । सुदुर्द्धरं धराभारं बभार किल हेलया ॥ १ ॥ तस्य महीमहेन्द्रस्यो - पायज्ञा विज्ञाः सुनया विनीतविनयाश्चातुर्यतर्जिततुर्यग्रहाग्रगग्रहाः सर्वजन सुखावहा निरवद्यविद्या मतिसागराधा महामात्या अजायन्त । तेषु विन्यस्तराज्यभारः सुरेश्वर इवाभङ्गुरतरभोगानुपभुञ्जते स्म । अन्यदा विदग्धजनदत्तमुदि राजसंसदि नृपे नृपासनोपविष्टे शिष्टजनजनितप्रमोदसंवादाः परस्परं सञ्जज्ञिरे तेषां मन्त्रिणां धर्मवादाः - तेष्वेको मुखरमुखस्तत्संमुखमभाषत - भो भो दक्षदाक्षिण्यवदान्यताशौण्डीर्य धैर्यपरोपकारव्यापारकरणदेशलोकाचारापरिहाररूप एव धर्मो नापरः कश्चिद्विपश्चिद्भिराद्रियते । ततोऽन्यो शंमन्यः प्रज्ञप्तवान्-वेदनिवेदितपवित्राग्निहोत्रसच्चरित्र एव धर्म्मः । अथापरः पामरनरसोदरतरमतिप्रसरो गिरमुच्चचार - स्ववंशावतंसपूर्वपुरुषपरम्परायाताचारव्यापार एव धर्म्मः । तत इतरो मिथ्याजल्पनाविकल्पितधिषणो जजल्प नास्तिकः - वस्तु हि प्रमाणितमेव प्रमाणयन्ति प्रमाणप्रवीणाः, धर्माधम्मौ हि प्रत्यक्षविपक्षत्वेनानुपलक्ष्यौ न दक्षमुख्यैः कक्षीक्रियेते, अतस्तौ पुष्करारविन्दवन्धुरबन्धुतामादधाते । इति बहलवाचालकोलाहलमुत्तालवातूलान्दोलिततूलजाल| लीलाप्रायमालापमाकलय्य क्षितिपतिश्चेतसि चिन्तयामास - यदेकेन दाक्षिण्यशौण्डीर्यस्थूललक्षतादिको धर्मः प्रोक्तः, स पौरुषोत्कर्ष एव न धर्मः, अपरेण च ययवेदि 'वेदोक्तो यज्ञादिकः' सोऽपि नृशंसहिंसोपदेशमलीमसो न धर्मतया स्वीकरणयोग्यः, इतरेण च विदुरमानिना प्रणीतः कुलक्रमागत एव धर्मः, सोऽपि Jain Education International For Private & Personal Use Only स० टी० ॥ ७१ ॥ www.jainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy