________________
RECORRECORRECRUA
__ व्याख्या-'मणत्ति' (इत्यादि) मनोवाकायानां शुद्धिः सम्यक्त्वशोधनी भवतीति सम्बन्धः, तत्र-तेष्वादौ मनःशु-18 है द्धिखरूपमुत्तरार्धेनाह–'मणसुद्धित्ति' जिना-वीतरागा जिनमतम्-अर्हत्प्रणीतं सकलभावाविर्भावकं द्वादशाङ्गीरूपं
शास्त्रं, तत्र हि ये भावाः प्रोक्ताः सन्ति ते स्थूलग्भिः कथं ज्ञायन्ते भाष्यन्ते च?, यतः-जीवाण गई कम्माण परिणई पुग्गलाण परिणामो । मुत्तूण जिणं अह जिणमयं च को साहिउं तरइ ? ॥१॥ अतस्तद्वर्ज-ताभ्यामृतेऽन्यं सर्व लोकं-परतीर्थिकशासनमसारं-फल्गु वल्गुताप्रायं मनुते-जानाति यस्तस्य मनःशुद्धिर्भवति इति गाथार्थः ॥ २५ ॥ भावार्थस्तु नरवर्मनृपदृष्टान्तेन कथ्यते, तथाहि| अनुक्रमद्विगुणद्विगुणविततसङ्ख्यातीतद्वीपसमुद्रमध्यस्थलक्षयोजनायामवर्षवर्षधराभिरामश्रीस्तूपजम्बूद्वीपदक्षिण- | प्रान्तनवतिशतभागमानविस्तरभरतक्षेत्रतन्मध्यखण्डमण्डनायमाना धनकनकमण्यादिवस्त्वमाना खश्रीविजितभो-| गावती "विजयवती” नाम नगरी-सौधशुद्धप्रभामिश्रा, यत्राश्चास्तन्वते रवेः । मध्याह्नेऽर्जुनतााणां, विभ्रमं सारथेरपि ॥१॥ तत्र वैरिवारणवारनिवारणवारणारिसङ्काशः सुरतरुरिव समाकृष्टकोदण्डदण्डवच मार्गणधोरणीपूरिताशः परिशीलितसद्धर्मका "नरवर्मा" नाम राजा राज्यं पालयति स्म । यस्य च लावण्यापहसितसुरसुन्दरी “रतिसुन्दरी" नाम प्राणेश्वरी । तयोरुपयाचितशतप्रीणितदैवतदत्तो "हरिदत्तो" नाम तनुभूरभूत्-यस्याव
50-55%25ARAS
G E
Ham Education
onal
For Private &Personal use Only
Indiainelibrary.org