________________
सम्यक
स०टी०
॥७॥
MSRUSREOSANSAREERS
धर्मश्रुतप्रवचनदर्शनेषु च सादरम् ॥ ८४ ॥ सनिर्वेदमनोवृत्तिवैयावृत्त्यमहर्निशम् । तथाऽकार्षांद्यथा वर्ण्यः, सोऽभवत् धुसदामपि ॥८५॥ त्रिभिर्विशेषकम् । तेनापि चित्रचारित्रभृता विनयसेवनात् । गुरवः सुगुणोपेता, विहिता विस्मयास्पदम् ॥ ८६॥ भुवनर्षिर्महर्षीणां, विनीतानां सदा धुरि। रेखां विनयतः प्राप, भरतश्चक्रिणामिव ॥ ८७ ॥ धन्योऽसि कृतपुण्योऽसि, सुश्लाघ्यं तव जीवितम् । इत्यृषयः शशंसुस्तं, तद्गुणग्रामरञ्जिताः ॥८८ ॥ केवलज्ञानिनाऽप्येवं, वर्ण्यमानगुणो व्रतम् । अपालयत्पूर्वलक्षान् , द्वासप्ततिमितान्मुनिः ॥८९॥ अशीतिप्रमितान् पूर्वलक्षान् सर्वायुरात्मनः । मुनिः प्रपूर्य पर्यन्ते, पादपोपगमं व्यधात् ॥९॥ निष्पाद्य स्वान्तमूषायां, शुक्लध्यानमहारसम् । केवलज्ञानकल्याणं, साधयामास साधुराट् ॥९१॥ ततः प्रक्षीणकर्माऽसौ, विनयी भुवनो मुनिः। अनन्तानन्दसाम्राज्यप्राज्यं प्राप परं पदम् ॥ ९२॥ भुवनतिलकसाधोरेवमेतच्चरित्रं, श्रवणयुगलपालीकुण्डलत्वं प्रणीय । तनुत विनयसेवामहदादिष्वजस्र, श्रयति लघु शिवश्रीरङ्कपाली यथा वः॥९३॥ दशविधविनयाधिकारे भुवनतिलकसाधुकथा ॥ इति श्रीरुद्रपल्लीयगच्छगगनमण्डनदिनकरश्रीगुणशेखरसूरिपट्टावतंसश्रीसङ्घतिलकसूरिविरचितायां सम्यक्त्वसप्ततिकावृत्तौ तत्त्वकौमुदीनाम्न्यां दशविधविनयखरूपनिरूपणो नाम तृतीयोऽधिकारः समाप्तः ॥
तृतीयं विनयाधिकारमुक्त्वा चतुर्थ त्रिशुद्धयधिकारमाहमणवायाकायाणं सुद्धी संमत्तसोहिणी तत्थ । मणसुद्धी जिणजिणमयवज्जमसारं मुणइ लोयं ॥२५॥
॥७०॥
Ham Education
For Private &Personal use Only
H
ainelibrary.org