________________
विना । छेत्तुमेते न शक्यन्ते, कर्मजा बन्धनत्रजाः ॥ ७१ ॥ तच्छ्रुत्वा जातसंवेगः, कुमारो गुरुसन्निधौ । कण्ठीरवादिकैर्लोकैर्युतो दीक्षामुपाददे ॥ ७२ ॥ यशोमत्यपि वृत्तान्तं खभर्त्तुरधिगत्य तम् । तद्वियोगात्कथं नाथानुरक्तां प्रविहाय माम् ॥ ७३ ॥ प्रव्रज्यामग्रहीरेवं विलपन्ती पुनः पुनः । कमठीव लुलोठोवपीठे बाढं मुमूर्च्छ च ॥ ७४ ॥ युग्मम् । शीतोपचारान्मूर्च्छान्ते, रुदती सुदती पुनः । सखीभिर्मदिता मा स्म, विषादं कुरु हे हले ! ॥ ७५ ॥ साऽप्यूचे विधिना हन्त, हता तद्विरहानिजम् । कथं सहिष्ये? हे सख्यो !, देहे दाहं सुदुःसहम् ॥ ७६ ॥ ता अप्यूचुर्वयस्ये ! किं, तेन नीरागचेतसा ? । अतोऽन्यं खहदानन्दकरं कुरु वरं परम् ॥ ७७ ॥ ततः सा स्माह मा स्मेदं वचो ब्रूतायशस्करम् । पतिव्रता व्रताम्भोदप्रलयानिलसन्निभम् ॥ ७८ ॥ तस्मादन्यमहं सख्यो !, न करोमि वरं परम् । तस्यैव मार्गमाश्रित्य पूरयिष्ये मनोरथम् ॥ ७९ ॥ इत्युक्त्वाऽऽ - पृच्छय पितरौ प्रस्थाय ज्ञानिनोऽन्तिके । वैराग्यवासितवान्ता, प्रवत्राज यशोमती ॥ ८० ॥ ब्राहृयाद्याया यशोमत्या, जाता व्यक्तं समानता । ययाऽऽशु विश्वनेताऽपि विजिग्ये रतिवल्लभः ॥ ८१ ॥ अथापरे चमूलोका, व्यावृत्ता निजपत्तने । धनदावनिशक्राय, कुमारचरितं जगुः ॥ ८२ ॥ अथो भुवनसाधुः खं, | दुर्विनीतत्वसम्भवम् । पूर्वजन्मार्जितं पापं, स्मारं स्मारमनेकशः ॥ ८३ ॥ तीर्थेशसिद्धसचैत्याचार्योपाध्यायसाधुषु ।
For Private & Personal Use Only
Jain Education International
"
www.jainelibrary.org