SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ सम्य० स. टी. सः ॥ २९ ॥ हाहा पुरुषमाणिक्य !, हाहा दाक्षिण्यसागर! । हहा प्रणतकल्पद्रो!, हा विनीतशिरोमणे! ॥३०॥ हा वीरधीरसंसारसार! सारखताकर! । दैवात् कथमिमां प्राप्तः, कुमारवर! दुर्दशाम् ? ॥ ३१ ॥ युग्मम् ।। अतुच्छवत्सवात्सलयशेवधेः खामिनः कथम् ? । वदनं दर्शयिष्यामः, कृतहत्या इवात्मनः ॥ ३२ ॥ यावसिद्धपरोद्याने, नानाक्रन्दनकर्मणा । अवश्याम्बुकणव्याजाते तरूनप्यरूरुदन् ॥ ३३ ॥ तावत्सरासराभ्यर्य-1४|| चरणः श्रमणाग्रणीः । शरद्भानुर्महाज्ञानी, तत्रैत्य समवासरत् ॥ ३४ ॥ युग्मम् । सुरनिर्मितसौवर्णसत्पर्णे कमले मुनिः । उपविश्य सुधासारानुकारां देशनां व्यधात् ॥ ३५ ॥ तेऽपि सामन्तमव्याद्या, गत्वा केवलिनोऽन्तिकम् । नतिपूर्वकमासीनाः, शुश्रुवुर्देशनामिति ॥ ३६ ॥ भो भव्या! भववारिधौ भयनिधौ नक्रौघवत्सम्भ्रमाद्, भ्राम्यन्तः कथमप्यवाप्य सुकृतान्मानुष्यजन्माद्भुतम् । तत्साफलयकृते विधत्त विनयेनाराधनं साधनं, श्रीसिद्धेः परमेष्ठिनामतितरां शर्मद्रुमाम्भोधरम् ॥ ३७॥ व्याख्याऽवसाने सामन्ताग्रणीः कण्ठीरवाभिधः । पप्रच्छ खच्छधीमौलिन्यस्तपाणिपुटो मुनिम् ॥ ३८ ॥ भगवन् ! भुवनाख्यस्य, कुमारस्य महाधियः। अप्रतर्कितदुःखाप्तिरभूत्केनापि हेतुना ? ॥ ३९ ॥ सूरिः स्माह महाभाग!, धातकीखण्डमण्डने। भरते भुवनागारं, पुरं सुरपुरोपमम् ॥ ४०॥ तत्रान्यदा गुणोपेतो, मुक्ताहार इवामलः । सूरिरितपापौघः, सगच्छः समुपेयिवान् ॥४१॥ तच्छिष्यो वासवाभिख्यो, भिक्षुर्निर्धर्मशेखरः । मुनिराजमरालेषु, बकलीलां व्यगाहत ॥४२॥ संक्लिष्टाध्यवसायः स, ॥६ ॥ Jan Educaton n al For Privale & Personal Use Only N jainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy