SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ त्त्वत्कुमारस्य, कुमारस्येव तेजसा ॥ १५॥ युग्मम् । तदादि तस्मिन्नत्यन्तरक्तां तां वीक्ष्य मन्मथः । जघान निघृणो बाणैस्तादृशां करुणा व नु? ॥ १६ ॥ तमेव चित्ते ध्यायन्ती, परब्रह्मेव योगिनी। गृहमागत्य कष्टेन, साऽनय-131 कतिचिदिनान् ॥ १७ ॥ वियोगविधुरा बाला, प्राणान् यन्नोज्झति स्म सा । तन्मन्ये नृपते! युष्मत्पुत्रभाग्य-16 विजृम्भितम् ॥ १८॥ तत्प्रार्थनेयमस्माकं, कुमारं प्रेष्य सत्वरम् । सफलीक्रियतां तस्याः, पाणिः पीडनकर्मणा ॥ १९ ॥ अथ बुद्धिविशालस्य, धीसखस्य मुखं नृपः । व्यलोकयत्तदा सोऽपि, जगौ युक्तमिदं प्रभो! ॥२०॥ प्रमाणीकृत्य तद्वाक्यं, प्रधानपुरुषं च तम् । सत्कृत्य स्थापयामास, सुन्दरे मन्दिरे नृपः ॥ २१॥ अथ राज्ञा समादिष्टो, मत्रिसामन्तसंयुतः। शुभेऽहि तुरगारूढः, प्रतस्थे नृपनन्दनः ॥ २२॥ मार्ग वेगात्समुलझ्य, प्राप्तः सिद्धपुराबहिः । रथोत्सङ्गे पपातासौ, मूर्छामीलितलोचनः ॥ २३॥ तं तथास्थं समालोक्य, सकलोऽपि परिच्छदः । रयान्मिमेल हाहेति, कोलाहलपराननः ॥ २४ ॥ ततो मत्रिमुखैलोकैः, कोमलालापपूर्वकम् । भाषितोऽपि स पाषाणखण्डवन्नोत्तरं ददौ ॥ २५॥ हिमप्लुष्टाम्बुजम्लानवदनाः सचिवास्ततः । आनीय | मात्रिकान् सर्वांस्तमुपाचीचरंस्तराम् ॥ २६ ॥ व्यास्तस्मिन् बभूवुस्तेऽन्दवृष्टय इवोपरे । प्रतिकूले विधौ यद्वा, से विफला एव हि क्रियाः ॥ २७॥ अधिका वेदना तस्य, प्रत्यहं किन्त्ववर्द्धत । विकलेन्द्रियभावश्च, तेलबिन्दु-| रिवाम्भसि ॥ २८ ॥ ततोऽमात्यमुखो लोकस्तदात्यन्तदुःखितः । श्वनीव कुम्भिकान्तःस्थो, विरसं विररास ***REA * %* Jan Education Intematonal For Private & Personal Use Only www.jaineibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy