________________
'पवयणत्ति' प्रवचनं अशेषः सङ्घः चतुर्विधश्रीश्रमणसङ्घः । 'दसणन्ति-' अत्र श्रीजिनशासने दर्शनं क्षायिकक्षायोपशमिकौपशमिकादिकं सम्यक्त्वमिच्छन्ति-प्ररूपयन्ति समयवेदिन इति । निगमयन्नाह-'विणयत्ति' एतेषां पूर्वोक्तानामहदादीनां दशानां विनय एवममुना प्रकारेण कर्त्तव्यः-करणीयो भवति-स्यात्, तु निश्चय इति गाथात्रयार्थः १८-१९-२० ॥ स विनयः कीदृक्वरूपः? किञ्च तस्य फलमिति ? गाथाचतुष्टयेनाहभत्ती वहमाणो वन्नजणण नासणसवण्णवायस्स । आसायणपरिहारो, विणओ संखेवओ एसो ॥२१॥ भत्ती वहिपडिवत्ती, बहुमाणो मणसि निब्भरा पीई।वण्णजणणं तु तेसिं, अइसयगुणकित्तणाईहिं ॥२२॥ उड्डाहगोवणाई, भणियं नासणमवण्णवायरस । आसायणपरिहरणं, उचियासणसेवणाइयं ॥ २३ ॥ दसभेयविणयमेयं, कुणमाणो माणको निहयमाणो । सद्दहइ विणयमूलं, धम्मति विसोहए संमं ॥२४॥
व्याख्या-भत्तित्ति' भक्तिः बहुमानो वर्णजननं अवर्णवादनाशनं आशातनापरिहार एष सक्षेपतःसमासतो विनयः । भक्त्यादिभेदानां व्याख्यानमाह-'भत्तित्ति' भक्तिर्बाह्या प्रतिपत्तिः-सम्मुखगमनासनदाननमस्करणसेवाकरणानुगमनादिका । 'बहुमाणत्ति' बहुमानं मनसि निर्भरा प्रीतिर्दर्शनादेव परमानन्दोल्लासः, 'वण्णजणणंति' वर्णजननं, अहंदादिश्लाघाकरणे महान् बोधिलाभः कर्तुरुपजायते, यदुक्तं स्थानाङ्गे-"पंचहिं।
PLECTIOCROST-MARCROSS
LIAR
R
ERATURE
Ham Education
For Privale & Personal Use Only
Aanbrary og