________________
MINHA
m
ar
सम्य० सामायिकसर्वविरतिसामायिकभेदाचतुर्दा, तत्र सम्यक्त्वसामायिक औपशमिकादिसम्यक्त्वावाप्तिः, श्रुतसामायिक स. टी. ॥६५॥
जघन्योत्कृष्टभेदादू द्विधा-जघन्यमष्टप्रवचनमातृपठनरूपं, इतरच द्वादशाङ्गीपठनरूपं, देशविरतिसामायिकं गृहस्थद्वादशत्रतपालनरूपं, सर्वविरतिसामायिकं तु सर्वसावद्यवर्जनमिति, 'धम्मत्ति' धर्म एकादिदशान्तभेदः । यदुक्तंश्रीधर्मो दययैकधा निजगदे ज्ञानक्रियाभ्यां द्विधा, ज्ञानाद्यैत्रिविधश्चतुर्विधतया ख्यातो ब्रतैः पञ्चधा । षोढा काय
सुरक्षणेन नयतः सप्ताष्टधा मातृभिस्तत्त्वैः स्यान्नवधा तथा दशविधः क्षान्त्यादिभिः सद्गुणैः ॥१॥ इत्यादिभेदरूपो दोधर्मश्चारित्रधर्मः । 'तस्सत्ति' तस्य चारित्रधर्मस्य आधारो-भारसहनशीलः साधुवर्गः, साधयन्ति मोक्षमार्गमिति सा
धवः, यदागमः-निहाणसाहए जोए, जम्हा साहति साहुणो। समा य सबभूएसु, तम्हा ते सच्च(भाव)साहुणो॥१॥
तेषां वर्गः-समूहः । 'आयरियत्ति' आचरन्ति पञ्चविधमाचारं प्रकटयन्ति वेत्याचार्याः, यदागमः-पंचविहं आया, हआयरमाणा तहा पयासंता । आयारं दंसंता, आयरिया तेण वुचंति ॥१॥ "उवज्झायत्ति' उपेत्य समीपमागत्य
येभ्यः सकाशात्सूत्रमधीयत इत्युपाध्यायाः, यदागमः-बारसंगो जिणक्खाओ, सज्झाओ कहिओ बुहहिं । तं उवइसंति जम्हा, उवझाया तेण वुचंति ॥१॥ आचार्योपाध्याययोर्विशेषणमाह-विसेसगुणत्ति,' विशेष-IN६५॥ 81गुणा ज्ञानदर्शनचारित्ररूपास्तैः सङ्गताः-सदाराधनयुक्ताः, क? तत्र श्रीमजिनशासने, यतस्तैरेव प्रवचनं प्रवर्तते ।
यदुक्तम्-कइयावि जिणवरिंदा, पत्ता अयरामरं पहं दाउं । आयरिएहि पवयणं, धारिजइ संपयं सयलं ॥१॥
Ruamanemama
Jan Education Interational
For Privale & Personal Use Only
www.jainelibrary.org