SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ सम्य ॥५०॥ तुमलं न चान्यः ॥२॥ इति धर्मदेशनां निशम्य मुदितमनाः सुदर्शनो यथाशक्त्या नियमग्रहणं कृत्वा कृतकृत्य-1 स०टी० मात्मानं मन्यानो जिनमभिनम्य निजधामाऽऽजगाम । अर्जुनोऽपि भगवद्देशनामृतं श्रवणपुटेनापीय रङ्गत्संवेगः, श्रीवीरपदमूले जघन्यतोऽपि षष्ठतपोऽभिग्रहपूर्व दीक्षां कक्षीकृत्य सकोपजनजनितताडनातर्जनाक्रोशकदर्थनादिपरी पहान् सहमानः पण्मासीमतिक्रम्य मासद्वयकृतसंलेखनः शुक्लध्यानानलदग्धकर्मेन्धनः शिवपुरमाससाद । सुदीदर्शनोऽपि चिरकालं विशिष्टतरप्रभावनाभिर्जिनशासनं प्रभावयन् श्रमणोपासकवतानि विधिवत्प्रपाल्य स्वर्गसुखभा गजायत । इत्यागमश्रवणसादरचित्तवृत्तेवृत्तं निशम्य वणिजस्य सुदर्शनस्य । भव्या! भवाम्बुनिधितारणनौनिभायां, धर्मश्रुतौ कुरुत सन्ततमेव यत्नस् ॥ १॥ आगमशुश्रूषारूपप्रथमलिङ्गविषये सुदर्शनकथा । आगमशुश्रूषारूपमाद्यलिङ्गमुक्त्वा द्वितीयं धर्मरागाख्यं लिङ्गमाहहै तारुत्तिन्नदिओ, घयपुण्णे भुत्तुमिच्छई छुहिओ। जह तह सदगुट्ठाणे, अणुराओ धम्मराओत्ति ॥१५॥ ___ व्याख्या-कान्तारात्-फलजलरहितान्महारण्यादुत्तीर्णः-कथमपि पारं प्राप्तः, कोऽप्यनिर्दिष्टनामा 'द्विजो' ब्राह्मणः, द्विज इति विशेषपदेन सूचयति यद्विजाः स्वभावत एव भोजनलम्पटाः स्युः, यदुक्तम्-चटका यत्र लभ्यन्ते, न दूरे पञ्चयोजनी । मोदका यत्र लभ्यन्ते, न दूरे दशयोजनी ॥१॥ सोऽपि क्षुधितः-अत्यर्थ बुभुक्षया पीडितो यथा-येन भा॥५० प्रकारेण सुदलितसुमलितसुगलितसुतलितसुललितेति पञ्चलकारोपेतानि सितास्थूलस्थललुलितानि वृतपरपूरितानि SARDASCCCCCROSEX BREAKI Jain Education o nal For Privale & Personal Use Only diainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy