SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ खयमत्रायाते तदुपदेशे चाश्रुते मम भोक्तुमपि न कल्पते, स चार्जुनकृतोपसर्गो मे किं कर्त्ता ? यतः-श्रीवर्द्धमानवचन-श्रवणामृतपानपुष्टतनुयष्टेः। विष इव विषमोऽपि सदा, किं कर्त्ता मे तदुपसर्गः ? ॥१॥ तस्माद्यद्भाव्यं तद्भवत्वित्युदीर्य पितरावनुज्ञाप्य च स त्रिभुवनगुरुं नन्तुं पथि गच्छन् रुषा मुद्गरमुद्गीर्य कुपितकृतान्तमिवार्जुनमायान्तं दृष्ट्वा निर्भयचेता भुवं वस्त्राञ्चलेन प्रमार्य जिनान्नमस्कृत्य कृत्यवित् विधिवतानि पुनरुच्चार्य चतुःशरणं प्रतिपद्य सर्वसत्वानि क्षमयित्वा दुष्कृत्यगहीं सुकृतानुमोदनां साकारमनशनं कृत्वोपसर्गपारङ्गत एव पारयिष्यामीति विचिन्त्य पञ्चपरमेष्ठिमहामन्त्रं स्मरन् कायोत्सर्ग चकार । तदा तमभिभवितुमप्रभुरुद्गीर्णविषविषधर इव विगतरोषो तयक्षः खं मुद्गरमुपादाय भीत्येव तद्वपुर्विहाय पलायाञ्चके। तन्मुक्तोऽर्जुनोऽपि च्छिन्नद्रुरिव भुव्यपतत् ।क्षणेन चावाप्त चैतन्यो मृत्योर्जीवित इवोन्मील्य नयनेअर्जुनः सुदर्शनं ददर्श । श्रेष्ठयप्युपसर्गपारं प्राप्तमात्मानं विदित्वा कायोत्सर्ग-11 मपारयत्। कस्त्वं क्व प्रस्थितोऽसीत्युक्तोऽर्जुनेन सुदर्शनोऽप्युवाच-भोः श्रमणोपासकोऽहं श्रीवीरं नन्तुं तद्देशनां च श्रोतुं प्रस्थितोऽस्मि । ततोऽर्जुनोऽपि तमभाणीत् । भद्र! ममाप्ययं मनोरथो मनसि जागर्त्ति। ततो द्वावपि भगवत्समवसरणं गतौ । तत्र जिनं पञ्चाङ्गप्रणामेन प्रणम्योभावपि भगवव्याख्यां शुश्रुवाते । तथाहि-मानुष्यमार्यविषयः सुकुलप्रसूतिः, श्रद्धालुता गुरुवचःश्रवणं विवेकः । मोहान्धिते जगति सम्प्रति सिद्धिसौध-सोपानपद्धतिरियं सुकृतोपलभ्या ॥१॥ संसारकूपाजननापमृत्युर्जरामहाक्षारजलाभिपूर्णात् । अर्हद्वचोरज्जुमृतेऽभिमनान् , जनान् समुद्ध %ENDSAMROSAROSAROSASAROSANSAR Jan Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy