SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ विज्ञायते निशा ॥१॥ तत्र कणाद इव बहुद्रव्यगुणक्रियः, साङ्ख्य इव प्रमाणितप्रधानपुरुषः, सौगतवद्विदितायतनः, श्रीवर्द्धमानजिनसमाराधनासादितसुकृतश्रेणिकः श्रीश्रेणिकः क्षितिपतिः । सुधर्मायां सभायां श्री-सुध आधिपतिः स्वयम् । सम्यक्त्ववर्णनं यस्य, कुरुते युसदां पुरः॥१॥ तत्रैवाभिनन्दितसजनोऽर्जुनो नाम मालाकारः प्रतिवसति स्म । तस्य च सौन्दर्यतर्जितसुरसुन्दरी बन्धुमती नाम प्रियतमा । प्रत्यहं सोऽर्जुनमालाकारः सदारः सौरभ्यसारसारपुष्पैः पुरोद्यानकृतावासं प्रातिहाधिवासं निजकुलदैवतं मुद्रपाणियक्षमर्चयति स्म । अन्यदा तत्र दानशूरैः पौरैः प्रारब्धे कसिंश्चिन्महोत्सवे "प्रातमे सुमानि महर्घाणि भविष्यन्तीति" विचार्य समायः सोऽर्जुनः । सायं करण्डकं पुष्पैः सम्पूर्य यक्षायतनं प्रविशन् पनिर्गोष्ठीकैरालोकितः। ततस्तैर्दुष्टाशयैरन्योऽन्यमालुलोचे-यदेतस्य जायां निरुपमसौभाग्यालङ्तकायामद्येनं बद्धा एतत्प्रत्यक्षमेव खैरमभिरंस्यामः इति, प्रतिश्रुत्य ते द्वारकपाटपश्चाद्भागे निलीय तस्थुः । इतश्च मालाकारोऽपि कारायामिव भवनान्तः प्रविश्यकतानमना यक्षं पूजयामास । ततस्ते दुष्ट-18| गोष्ठीकाः सहसा निःसृत्य तं बन्धनैर्वद्धा तत्प्रियां बन्धुमती यथाखैरमभिरेमिरे । ततस्तां तथा विलोक्यार्जुनो जाङ्गुलीमन्त्रनियत्रितभुजङ्गम इव प्रहर्तुमक्षमो रोषभरं बिभरांबभूव, यतः-पितृधातादिदुःखानि, सहन्ते बलिनोsपि हि । प्रियाधर्षणजं दुःखं, रङ्कोऽपि न तितिक्षति ॥१॥ किञ्च-सह्यन्ते प्राणिभिडिं,पितृमातृपराभवाः । भायर्यापराभवं सोढुं, तिर्यञ्चोऽपि न हि क्षमाः ॥ २ ॥ सोऽप्यमर्षोत्कर्षात्कठोरतरवचनैर्यक्षमुपालन्धवान् भो-गुह्यक ! Cl Jain Educat onal For Privale & Personal Use Only vjainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy