________________
सम्य०
स०टी०
॥४८॥
SAKCERRORISCLASS
ला व्याख्या-"तरुणु"त्ति, तरुणो-युवा तारुण्ये हि प्रायः स्मरोन्मादादिविकाराः सम्भवेयुः, यदुक्तम्नवि अत्थि नविय होही, पाएणं तिहुयणमि सो जीवो । जो जुत्वणमणुपत्तो, विआररहिओ सया होड ॥ एवंविधोऽपि कदाचिद्दारिद्यदुःखशोकाद्याकुलः स्यादत एवोक्तं-सुखी-निरुपचरितभोगयोगवान् । ननु सोऽपि कदा-13 |चिन्निर्विचारत्वकारागारनिपतितः स्यादत एवाह-विदग्धः-प्रज्ञावज्ञातवाचस्पतिमतिकः, ईदृगपि कदाचिद्रागपरा
मुखो भवतीत्यत एवाह-रागी-स्मरोपचारचतुरो अथवा रागरागाङ्गवरादिपरिज्ञानवान्, यदुक्तम्-सप्त स्वराः त्रयो ग्रामा, मूर्च्छनास्त्वेकविंशतिः । तानान्यकोनपञ्चाश-त्तिस्रो मात्रास्त्रयो लयाः॥१॥ स्थानत्रयं यतीनां च, षडाषाः षट् रसानि च । वर्णाः षट्त्रिंशदित्युक्ता, भाषाः स्युः सप्तषड्गुणाः॥२॥ रागादिपरिज्ञानमप्युभयथा प्रियाविरहितस्य निरर्थकमत एवाह-'प्रियप्रणयिनीयुतः' प्रिया-प्राणेभ्योऽप्यधिकं अभीष्टा या प्रणयिनी-प्रेयसी, तया युतः सहितः, एवंरूपोऽपि यथान्येन प्रकारेण सुरगीतं-अखर्वगान्धर्वसर्वकलासगर्वहहाहूहूप्रभृतिदेवगन्धर्वगानं श्रोतुम् आकर्णयितुमिच्छति-अभिलपति, ततः-तस्मादधिका-प्रकर्षवती समयशुश्रूषा-जिनप्रणीतागमश्रवणेच्छा, सम्यक्त्वप्रथमलिङ्गमिति गाथार्थः । अत्रार्थे सुदर्शनश्रेष्ठिदृष्टान्तो निष्टङ्कयते-तथाहि
युवतीमुखमिव सदक्षं, गिरीशाङ्गमिव गौरीसङ्गतं, पुरुषोत्तमवक्ष इव सश्रीकं, सुरपुरमिव विविधविबुधोपशोमितं, मगधदेशालङ्करणभूतं राजगृहं नाम नगरं । यत्रोन्नतस्फुरद्रत्वचैत्यरुग्ध्वस्ततामसे, कुमुदाम्भोजबोधे नाद्यापि ।
RSS RSHRS AWA
॥४८॥
RESS
Jan Education Interational
For Privale & Personal Use Only
www.aineraryong