________________
REC5%CRECORRESTERE
यदागमः"-सवणे नाणे य विनाणे, पञ्चक्खाणे य संजमे । अणण्हए तवे चेव, बोदाणे अकिरिय निवाणे ॥ १॥" अत एवैषा सम्यक्त्वस्याद्यलिङ्गम् । “अणुरागुत्ति" अनुरागो-मनसा परमा प्रीतिः, क्व ? 'धर्मसाधने' धर्मस्य-यतिश्रावकभेदभिन्नस्य साधनं-कारणं तत्र परमोऽत्यन्तासेवनेन परां कोटिं प्राप्त इति द्वितीयं लिङ्गम् । “जिणगुरुत्ति," रागाद्यष्टादशदोषजयनाजिना-अतीतानागतवर्तमानार्हन्तः गृणन्ति धर्मतत्त्वमिति गुरवः-पञ्चविधाचारचतुरा, जिनाश्च गुरवश्चेति द्वन्द्वः, तेषां वैयावृत्त्य-विनयकरणं, तस्मिन्नियमः-अवश्यतया तत्परिशीलनं, तच प्राणिनां .महते गुणाय स्यात् ,यदुक्तम्-"सद्यः फलन्ति कामा, वामाः कामा भयाय न यतन्ते। न भवति भवभवभीतिर्जिनपतिततिनमनतः पुंसाम् । १। गुरुसेवाकरणपरो, नरो न रोगैरभिद्रुतो भवति । ज्ञानसुदर्शनचरण-रात्रियते सद्गुणगणैश्च ॥२॥" इति तृतीयं लिङ्गम् । एतानि त्रीण्यपि सम्यक्त्वस्य क्षायिकादेर्लिङ्गानि। तत्र लिङ्ग्यन्ते-चिह्नयन्ते सम्यग्दर्शनभाजो जीवा एभिरिति लिङ्गानि-साधनानि, साधनं विना ह्यन्वयव्यतिरेकाभ्यां साध्यसिद्धिः क्वापि नो(प)लभ्यते, प्रयोगश्चात्रसन्ति सम्यक्त्वभाजो जीवाः, परमागमधर्मानुरागजिनगुरुवैयावृत्त्यकारित्वात् , ये ये परमागमादिवैयावृत्यकरणवन्तस्ते ते सम्यक्त्वभाजः, यथा श्रीभरतचक्रवर्त्यादयः, तथा चामी तस्मात्तथेति, व्यतिरेकस्तु ये एवंविधा न स्यु|स्ते माध्यमिकादिवत् सम्यक्त्वभाजोऽपि न स्युरिति गाथार्थः ॥ १३॥ तत्र प्रथमं शुश्रूषालक्षणं लिङ्गमाहतरुणो सुही वियड्ढो, रागी पियपणइणीजुओ सोउं। इच्छइ जह सुरगीयं, तओऽहिया समयसुस्सूसा॥१४॥
ना ह्यन्वयव्यावस्यकारित्वात् व्यतिरेकस्तु
Jan Education Interational
For Privale & Personal Use Only
www.jainelibrary.org