SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ सम्य ॥४७॥ CAMEResRASTRACK सञ्जाताचिन्तयचित्ते, नान्यत्सारं जिनादृते ॥ ४५१ ॥ मन्यमानः पुराणादे-मिथ्या मिथ्यादृशां वचः । विशिष्य 8 स० टी० जिनधर्मे स, श्रेष्ठी दृढतरोऽभवत् ॥ ४५२ ॥ पालयित्वाऽथ सुश्राद्ध-धर्म शर्मनिबन्धनम् । स कृत्वाऽनशनं चान्ते, मृत्वाऽभूदच्युते सुरः ॥ ४५३ ॥ ततो नरभवं प्राप्य, चारित्रप्रतिपत्तिभृत् । ध्यानासिना कर्मवनं, छित्त्वा मुक्तिमवाप्स्यति ॥ ४५४ ॥ इत्थं वैश्रमणस्य चारु चरितं श्रुत्वा श्रुतिप्रीणकं, मा रामायणभारतश्रुतिभवैर्वाक्यैर्विचाराक्षमैः । मालिन्यं नयतातिनिर्मलतमं सद्दर्शनं पावनं, येन स्युभवतां जिनागमविदां शर्मश्रियः सुस्थिराः ॥४५५॥ ।कुदर्शनवर्जनविषये वैश्रमणकथा। इति रुद्रपल्लीयगच्छगगनमण्डनदिनकरश्रीगुणशेखरसूरिपट्टावतंसश्रीसङ्घतिलकसूरिविरचितायां सम्यक्त्वसप्ततिकावृत्तौ तत्त्वकौमुदीनाम्यां सम्यक्त्वश्रद्धानखरूपनिरूपणो नाम प्रथमोऽधिकारः समाप्तः । आद्यं श्रद्धानाधिकारमुक्त्वा द्वितीयं लिङ्गद्वारमाहपरमागमसुस्सूसा, अणुराओ धम्मसाहणे परमो । जिणगुरुवेयावच्चे, नियमो सम्मत्तलिंगाई॥ १३॥ व्याख्या-"परमागमत्ति," परमो-यथावस्थितसकलपदार्थसार्थपरमार्थतया प्रधानो य आगमो द्वादशाङ्गीरूपः। सिद्धान्तस्तस्य शुश्रूषा-श्रोतुमिच्छा, नहि श्रवणमन्तरेण ज्ञानादिगुणगणः कर्हिचिजायेत, किन्तु तच्छ्रवणादेव स्यात् ।। SECRUCES RICICLOC**** ॥४७॥ Jan Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy