________________
सम्य०
स. टी.
॥४६॥
MARWARANANASA%AA%AA
भिव्याप्य, सूक्ष्मस्थूलविभेदतः । भगवान् सर्वगो विष्णु-रिति श्रुतिषु गीयते॥४२३॥यदि सर्वगतो विष्णु-रिति सत्यं वचो भवेत् । तदा स्मरातुरो गोपीः, किं चिन्तयति कामिवत् १॥४२४॥ असम्भाव्यमिदं लोके, श्रूयते यदुमामलात् । जातोऽपि प्राप्तचैतन्यः, प्रथमः (पप्रथे) स गणाधिपः॥ ४२५ ॥ इत्येते लौकिकाऽऽलापाः, पुराणादिसमुद्भवाः। विशीयन्ते प्रतिपदं, विचक्षणविचारिताः ॥ ४२६ ॥ अतोऽदो लौकिकं वाक्यं, रासभोचारवद्वहिः । रम्यमन्तश्चिन्त्यमानं, पुनस्तुषवसा(दा)कुलम् ॥४२७॥ इति वैश्रवणस्याग्रे,साकेतपुरवासिनः। शुश्रूषायां सतृष्णस्य,धर्माधर्मविवेकिनः॥४२८॥ सुस्थितेन मुनीन्द्रेण, ज्ञानत्रितयशालिना। लौकिकग्रन्थवाक्यानि, विरुद्धानि पदे पदे ॥ ४२९ ॥ असत्प्रलापरूपाणि, मदोन्मत्तप्रलापवत् । उक्त्वा स्म गद्यते लोको-त्तरधर्मविचारणा ॥ ४३० ॥ त्रिभिर्विशेषकम् । पूर्वापराविरुद्धं तु, तीर्थ लोकोत्तरं मतम् । परीक्षाक्षममेवैतत् , सुविशुद्धसुवर्णवत्॥४३१ ॥ महाव्रतानि पञ्चैव, यत्र मूलगुणाः स्मृताः। उत्तरास्तु समाख्याताः, पिण्डशुद्ध्यादिसप्ततिः ॥ ४३२॥ मुख्यं जैनममुं धर्ममनाराध्य नरः क्वचित् । अनुप्तबोधिबीजः सन्न मोक्षफलमश्नुते ॥ ४३३ ॥ द्वितीयं श्राद्धधर्म तु, द्वादशवतभासुरम् । सम्यक्त्वयुक्तं संसेव्य, पुमान् स्वःसुखमनुते ॥ ४३४ ॥ मूलशुद्धिमिति ज्ञात्वाऽर्हद्धर्मस्य गुरोर्मुखात् । उदियाय विवेकार्क-स्तन्मनः पूर्वपर्वते ॥४३५॥ ततो वैश्रमणः सूरी-नानम्य स्माह मेऽधुना । दीक्षाऽक्षमस्य सुश्राद्ध-धर्म दत्त सुखास्पदम् ॥४३६ ॥ गुरवोऽपि ददुस्तस्मै, ज्ञात्वा ज्ञानेन योग्यताम् । विशुद्धदर्शनोपेतां, श्रावकद्वादशवतीम् ॥४३७॥
॥४६॥
Jain Education
a
l
For Privale & Personal Use Only
Lainelibrary.org