SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ सम्य० ॥ ४५ ॥ मुत्कलाप्य महीपतिम् । पुरा गता शुकार्थेऽहं पर्यभ्राम्यं दिशो दिशः ॥ ३९५ ॥ अन्यच दासाश्चत्वारो, नं क्वापि गता मम । गवेषयन्ती तांश्चात्र, साम्प्रतं समुपेयुषी ॥ ३९६ ॥ भवन्तस्ते च मे दासाः सन्ति यैश्चौरितानि हि । यद्येतन्नैव मन्यध्वं तदत्तैभ्योऽद्य भोजनम् ॥ ३९७ ॥ हीणहीणास्ततस्तेऽपि, खण्डां स्माहुरखण्डिताः । त्वयैव खण्डिता विश्व-जनतावञ्चका वयम् ॥ ३९८ ॥ भारस्यैतस्य योग्याऽसि त्वमेव वरवर्णिनि ! । यया प्रज्ञामदोन्मत्ता, विजिता पुरुषा अपि ॥ ३९९ ॥ औत्पत्तिक्या महाबुद्ध्या, विजिता यत्त्वया वयम् । अतस्त्वं प्रार्थ्यसे देहि, धूर्त्तानां पानभोजने ॥ ४०० ॥ ओमित्युदीर्य सा भूत-पिशाचप्रेतसङ्कुलम् । धूकघूत्कारदुर्वारफेरुफेत्कारदारुणम् ॥ ४०१ ॥ कलेवर विनिर्गच्छद्वसारुधिरपिच्छलम् । ज्वलचितानलज्वालं, गृध्रपक्षिरणोत्कटम् ॥ ४०२ ॥ शूलाप्रोताङ्गिनामन्त्रवित्रासितजनप्रजम् । दुर्गन्धगन्धवाहोत्रं, खण्डा पितृगृहं ययौ ॥ ४०३ ॥ त्रिभिर्विशेषकम् । तत्राखण्डितसर्वाङ्गं, बालमेकं गतासुकम् । तत्कालमुक्तमादाय, खण्डाऽसित्रपदम्भसा ॥ ४०४ ॥ सा वाससा तमाच्छाद्य, विधाय च सुसङ्गतम् । उज्जयिन्यां धनाढ्यस्य, श्रेष्ठिनः सदनं ययौ ॥ ४०५ ॥ तत्रेन्द्रसदृशः श्रेष्ठी, दृष्ट्वा श्रेष्ठजनैर्वृतः । तयोचे दुर्गतस्याहं दुहिताऽस्मि द्विजन्मनः ॥ ४०६ ॥ अबन्धुरशरण्याऽद्य, सूता वैदेशिकी द्विजी । अतस्त्वां प्रार्थये देहि, धनं बालकवृद्धये ॥ ४०७ ॥ स श्रेष्ठी व्याकुलः कार्ये, भूयो भूयोऽर्थितस्तया । क्रुधा भृत्यानुवाचैतां, निष्काशयत दुर्गताम् ॥ ४०८ ॥ अतिदीनं ब्रुवाणापि धृत्वा तैः प्रेरिताऽथ सा । भूमौ निपत्य Jain Education International For Private & Personal Use Only स० टी० ॥ ४५ ॥ 'www.jainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy