SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ सम्म० स.टी खण्डा-भिधा गौतमगोत्रजा ॥ ३६५॥ सोचे नाहं भवन्तस्तु, भ्रान्ताः सदृशरूपतः। किन्त्वस्मि राजरजकपुत्रिका दग्धिकाभिधा ॥ ३६६ ॥ बहुधान्यसमाकीणे, नानावाहनभासुरम् । धनैरमानैः सम्पूर्ण, मवेश्म नृपवेश्मवत् है ॥३६७ ॥ भूपते राजलोकस्य, शुद्धान्तस्य च शिल्पिनाम् । सहस्रेण युताऽजलं, वासांसि क्षालयाम्यहम् ॥३६८ ॥ अंशुकैः शकटीभृत्वा, शिल्पिसाहनिकायुता । तरङ्गिणी तरङ्गालितालितामन्यदाऽगमम् ॥ ३६९॥ छटच्छुटितिहुंच्छुञ्चशेष्टिकाशब्दपूर्वकम् । शिल्पिनः क्षालयामासुर्वासांसि मम सेवकाः ॥ ३७० ॥ विस्तारितानि वस्त्राण्यातपे शोषयितुं भुवि । रौद्रेण वायुना तानि, हृत्वा नीतानि च क्वचित् ॥ ३७१ ॥ ततो भृत्या मया प्रोक्ता, नंष्ट्वा गच्छत रे रयात् । वस्त्रापहारदोषोऽयं, ममैवातो गता हि ते ॥ ३७२ ॥ गोधारूपमहं कृत्वा, नराधिपतिभीतितः । सच्छायं नगरोद्यानं, रजन्यां समुपेयुषी ॥ ३७३॥ क्रीडन्ती तत्र च खैरं, पश्चिमप्रहरे निशः। अचिन्तयं जनो मांसचर्मार्थी मां हनिष्यति ॥ ३७४ ॥ तन्निर्भया कतिष्ठामीत्येवं चिन्ताञ्चिता सती । अभ्राम्यमहमाराम, को हि मृत्योर्बिभेति न? ॥ ३७५ ॥ गोधारूपं ततस्त्यक्त्वा, रक्ताशोकमहीरुहः । पार्थे चूतलतारूपं, विधाय स्थितवत्यहम् ॥ ३७६ ॥ तमःपटावृता रात्रिरसतीव विलासिनी। व्यतीयाय ततो भानुरुदगात् पद्मबोधकृत् ॥ ३७७ ॥ वस्त्रापहारवृत्तान्तं, श्रुत्वा राजा जनादथ । पटहोद्घोषणापूर्व, रजकानां ददेऽभयम् ॥३७८ ॥ ततोऽहं पटहारावं, श्रुत्वा श्रुतिपुटामृतम् ! हित्वा चाम्रलताभावं, पुनः खं रूपमाश्रिता ॥ ३७९ ॥ शकटीनां वरत्राद्यं, ॥४४॥ en Education na For Private & Pasonal Use Only www.jainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy