SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ॥ ३२१ ॥ क्रोधाग्निविह्वलीभूतः, पुरुषो ज्ञानवानपि । कृत्याकृत्यं न जानाति, तदेतैः साधु बोधितः ॥ ३२२॥13 जाते ततस्तयोः सन्धौ, रथीचक्रे स चक्रिणा । दत्त्वाऽमृतं च माताऽपि, पक्षिणाऽऽमोचि दास्यतः ॥ ३२३॥ कुम्भिकर्कवटास्तेनोत्पाटिता यदि पक्षिणा । दृतेरुत्पाटनं तत्कः, शृण्वंस्तव न मन्यते ?॥३२४॥ शशाह (शशोऽवक)दुर्दिने विष्णुरधागोवर्द्धनाचलम् । तत्त्वं तैलभृतां बन्धो ! इति धरसि नो कथम् ? ॥३२५॥ कपिभिर्बन्धने सेतोरुत्क्षिप्योक्षिप्य पर्वताः। बहुभ्यो योजनेभ्योऽथानीय क्षिप्ताः पयोनिधौ ॥ ३२६ ॥ अशोकवनिकाभङ्गे, हनुमानुच्चशाखिनः। हेलयैवाभिनत्कोपादित्युदन्तं विभावयन् ॥३२७॥ पादपोन्मूलनानीततमायास्त्वत्तनूभुवा । दृतेः को विस्मयं धत्ते ? वद धूर्तशिरोमणे ! ॥३२८॥ युग्मम् । एवं निरुत्तरीभूतः, शशः खण्डामभाषत । खानुभूतं त्वमप्यर्थ, धूर्त्तिके ! है ब्रूहि कञ्चन ॥ ३२९ ॥ साऽप्यवादीद्वदाम्येव, भवतां पुरतः परम् । नमतेतर्हि मत्पादौ, यदि तद्भोजयामि वः ॥३३० ॥धूर्तास्तां स्माहुरग्र्याः स्मः, पुरुषेषु कथं नु ते । महिलायाः पुरो दीनं, ब्रूमो भोजनहेतवे ? ॥ ३३१॥ ईषद्धसित्वा सा स्माहाकर्णयध्वं सकर्णकाः ! । आख्यानकं मयाऽऽचीर्ण, वर्ण्यमानं च सूनृतम् ॥ ३३२ ॥ यौवनोदयसातलावण्योत्सेकशालिनी । रतिरूपा स्मरोन्मादशुण्डा रण्डाऽभवं पुरा ॥ ३३३ ॥ अन्यदाऽहमृतुस्नाता, प्रसुप्ता मण्डपे शुचौ। पवनेन यथाखैरमुपभुक्ता विलासिवत् ॥ ३३४ ॥ तस्मात्सुतो मयाऽसावि, तत्कालं सोऽपि मां बलात् । मुत्कलाप्य क्षणात् क्वापि, जगाम खप्नदृष्टवत् ॥ ३३५ ॥ तद्यूयं ब्रूत किं सत्यं ? यद्येवं Jain Education ideal For Privale & Personal Use Only M ainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy