SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ सम्य० स० टी० ॥४२॥ STOCHARCHAE%% सुराः प्रहरणोद्धराः। कोलाहलरवैराशाः, पूरयन्तः समन्ततः ॥३०७॥ भिन्नच्छिन्नहता हन्तात्रापि माऽमुं च मुञ्चत । इति जल्पपराः क्रूराः, सम्भ्रमात्ते तमन्वगुः ॥ ३०८ ॥ युग्मम् । त्रयस्त्रिंशत्कोटिदेवा, वेष्टयित्वाऽथ तं जगुः ।। हतोऽसि रे सुधाचौर !, क यास्यस्यस्मदग्रतः ? ॥ ३०९ ॥ एकतः सकलं विश्वमन्यतस्त्वेक एव सः। समरं कर्तुमारेभे, कातरपलायनौषधम् ॥ ३१ ॥ स पक्षी पक्षघातेन, चतुर्दिक्षु दिवौकसाम् । लक्षं सहस्रं कोटींश्चानयत्कीनाशपत्तनम् ॥ ३११ ॥ गरुडस्य सुराणां च, युद्धं पीयूषहेतवे । जज्ञे स्म स्मयविध्वंसि, विश्वाश्चर्यकरं तथा ॥३१२॥ ततः समूहो देवानामेकेन विनताभुवा । त्रस्तो रणाङ्गणादिक्षु, बलिवनिर्ममेऽखिलः ॥ ३१३ ॥ अथेन्द्रस्त्रिदशान् भग्नान् , दृष्ट्वा ज्वालाशताकुलम् । मुमोच कुलिशं घोरं, विघाताय गरुत्मतः ॥ ३१४॥ तद्वजं वज्रसाराभ्यां, पक्षिभ्यां (पक्षाभ्यां) पक्षिणः पतत् । भाग्यादेव दिवोभत्तु गात् खण्डसहस्रताम् ॥३१५॥ किमप्यशनिनाऽनेन, चिच्छिदे भोः सुरा! इति । तत्प्रत्ययाय पक्षं स, चञ्चयोत्पाट्य ह्यदर्शयत् ॥ ३१६ ॥ ततो दन्दह्यमानोऽसौ, केशवः कोपवह्निना । द्वादशार्कप्रभं चक्रं, लात्वा तद्धतयेऽचलत् ॥ ३१७ ॥ भीतभीताः ससम्भ्रान्ता, हा हा किमितिलापिनः । महर्षयस्ततो गत्वा, विष्णुमेवं व्यजिज्ञपन् ॥ ३१८ ॥ ससुरासुरलोकस्य, खामी सर्वगतो भवान् । नीचवन्निरपेक्षः किं, ? गरुडं प्रति धावसि ? ॥ ३१९ ॥ तवैष गरुडो बन्धुस्त्यज कोपमतः प्रभो!। व्यामूढ ! म्लेच्छवद्गोत्रं, मा नय क्षयमात्मनः ॥ ३२० ॥ ऋषीणां तद्वचः श्रुत्वेत्यच्युतोऽचिन्तयद्धृदि । कथं ? क्रोधान्मया बन्धुर्हहा व्यापादितो भवेत् । ॥४२॥ Jan Education Interational For Privale & Personal Use Only www.jainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy